OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।