एफ् बी ऐ संस्थया मार्गमाणः उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।
चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः। कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्।
षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।