'आशा'प्रवर्तकानां वेतनं वर्धापयिष्यतीति केन्द्रसर्वकारः।
विषयः देशीयश्रद्धामाचकर्ष।
संसदि इन्नीय सदस्याः।
नवदिल्ली> केरले सर्वकारेण 'अङ्गीकृत स्वास्थ्य-सामाजिकप्रवर्तकेषु' [Accredited Social and Health Activist - ASHA] वेतनवर्धनाय आन्दोलनं कुर्वत्सु प्रकरणमिदं केन्द्रप्रशासनस्यापि श्रद्धामाचकर्ष। लोकसभायां राज्यसभायां च सदस्याः गतदिनेषु विषयममुम् उन्नीतवन्तः। अनुभावपूर्वं प्रतिकरणं कृतवान् केन्द्रस्वास्थ्यमन्त्री जे पी नड्डावर्यः उक्तवान् यत् आशाप्रवर्तकानां वित्तानुकूल्यवर्धनाय राष्ट्रिय स्वास्थ्य परियोजनायाः 'योजनानिर्णयसंघः' [Mission Steering Group - एम् एस् जि] सिद्धः अस्ति, सर्वकारोSपि तत् साक्षात्कर्तुं यतिष्यते। राष्ट्रियस्वास्थ्यपरियोजनायाः नयरूपवत्करणसमितिः भवति एम् एस् जि इति संस्था।