छत्तीसगढे पुनरपि मावोवाद्याखेटः।
३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।
बिजापुरं> छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप।
गुरुवासरे प्रभाते बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले अन्वेषणमारब्धम्। अत्रतः १८ मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।