छत्तीसगढे शिरोमूल्यप्रख्यापिताः अभिव्याप्य २२ मावोवादिनः आत्मसमर्पणं कृतवन्तः।
बीजपुरं> छत्तीसगढे बीजपुरजनपदे सर्वकारेण आहत्य ११ लक्षं रूप्यकाणि शिरोमूल्यं प्रख्यापिताः ६ अभिव्याप्य २२ मावोवादिनः गतदिने आरक्षकाणां पुरतः आयुधानि समर्प्य आत्मसमर्पिताः अभवन्।
आन्ध्रप्रदेश-ओडीशाविभागस्य अधीने प्रवर्तमानाः निरुद्धसंघटने अन्तर्भूताः, तेलङ्कानाराज्यसमित्यंगाः च एते आत्मसमर्पिताः। छत्तीसगढ़सर्वकारस्य आत्मसमर्पण-पुनरधिवासयोजनामनुसृत्य एते आनुकूल्यार्हाः भवन्ति।