OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 18, 2025

 राष्ट्रक्षामण्डले भारत - न्यूसिलान्टयोः सहयोगः। 

नवदिल्ली> राष्ट्रक्षामण्डले सहयोगाय भारत - न्यूसिलान्टराष्ट्रयोः मिथः सन्धिरजायत। न्यूसिलान्ट प्रधानमन्त्री क्रिस्टफर् लक्सनः नवदिल्ल्यां भारतस्य प्रधानमन्त्री नरेन्द्रमोदिना सह मेलने आसीदयं निर्णयः। वाणिज्यव्यवहारान् ऊर्ज्वस्वलं कर्तुं,निक्षेपान् वर्धयितुं च चर्चाः पुनरारप्स्यन्ते। विविधमण्डलेषु परस्परसहयोगाय षट् सन्धयः हस्ताक्षरीकृताः।