वेस्ट् बाङ्के कारागृहस्थाः १० भारतीयाः इस्रयेलेन विमोचिताः।
वेस्ट् बाङ्क्> पालस्तीने वेस्ट् बाङ्क् इत्यत्र एकस्मिन् ग्रामे मासाधिककालं यावत् कारागारबद्धाः १० भारतीयाः निर्माणवृत्तिकराः इस्रयेलेन विमोचिताः। निर्माणवृत्त्यर्थं इस्रयेलं प्राप्ताः भारतीयाः कर्मवाग्दानाधीनाः वेस्ट् बान्कस्थं अल् - सयीम ग्रामं नीताः इति इस्रयेलिमाध्यमैः सूचितम्। एतेषां पास्पोर्ट् पत्राणि बलेनापहृतानि। सीमातरणाय एतानि पास्पोर्ट् पत्राणि कतिपयैः पालस्तीनीयैः उपयुक्तानीति अवगम्य इस्रयेलसेनया परिशोधनं कृत्वा एते अधिगताः आसन्।