उन्मादकं विरुध्य सामान्यजनानां युद्धं 'योद्धाव्' द्वारा।
एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याकानि उन्मादकवस्तूनि गृहीतानि।
'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरवाणीसंख्या।
अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासेनैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च।
राज्यस्य शान्तिस्थितिनियमपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरां वैभवरूपेण प्रवर्तमानः अस्ति।