लण्टने 'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः।
हीत्रो विमाननिलयः २४ होराः पिहितः।
पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य।
लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता। एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः।
२४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य सम्पूर्णतया विमानसेवा आरप्स्यते।