गासायां युद्धविरुद्धपथसञ्चलनम्।
हमासं विरुध्य रोषवाक्यानि।
केय्रो> इस्रयेलेन शक्तमाक्रमणं पुनरारब्धायां गासायां पालस्तीनीयैः युद्धविरुद्धपथसञ्चलनं विधत्तम्। पथसञ्चलने असाधारणतया हमाससंघटनं विरुध्य च रोषवाक्यानि उद्घोषितानि।
"युद्धं मास्तु", " वयं न हन्तव्याः" इत्यादिकं लिखितानि कागदानि गृहीत्वा आसीत् पथसञ्चलनम्। एतदाभ्यन्तरे "हमासः बहिर्गच्छतु" इत्यादीनि मुद्रावाक्यान्यपि उद्घोषितानीति 'ए पी' इति वार्तासंस्थया वृत्तान्तीकृतम्। इस्रयेल-हमासयोर्मध्ये सम्पद्यमाने युद्धे जनाः भोज्य-इन्धन-औषधाद्यवश्यवस्तूनां निरोधेन बहुसङ्कटमेवानुभवन्ति।