OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतत् राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।