भारतं विरुध्य अमेरिकायाः आयातकरः एप्रिमासे - ट्रम्पः।
न्यूयोर्क> भारतं विरुध्य अमेरिकया प्रख्यापितः आयातकरः एप्रिमासस्य द्वितीये दिने प्रवृत्तिपथमीगमिष्यतीति राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् राष्ट्रपतिपदावरोहानन्तरं सभायाः संयुक्तसम्मेलनं प्रथमतया अभिमुखीकुर्वन् ट्रम्पः आयातशुल्कं पुरस्कृत्य भारतमभिव्याप्य बहूनि राष्ट्राणि विमृष्टवान्। भारतं विना यूरोपीयराष्ट्रसंहतिः, चीनः, ब्रसीलः, मेक्सिको, कानडा, दक्षिणकोरिया इत्येतैः राष्ट्रैः अमेरिकायामुपरि विहितानि शुल्कानि अनीतियुक्तानीति ट्रम्पेण विमृष्टम्।