कृष्णसागरे आक्रमणं परित्यज्यते।
यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।
वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।
रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।