हिमाचले मृत्प्रपातः - षट् मरणानि।
षिम्ला> हिमाचलप्रदेशराज्ये कुलू प्रदेशस्थे मणिकरणगुरुद्रावा इत्यत्र मृत्प्रपाते महान् वृक्षः पतित्वा ६ जनाः मृताः।अनेके क्षताश्च। रविवासरे सायमासीदियं दुर्घटना।
वाहनानामुपरि वृक्षः पतितवानासीत्। मृतेषु त्रयः प्रत्यभिज्ञाताः। मणिकिरणवासिनी रीना, बङ्लुरु निवासिनी वर्सिनी, नेपालीयः समीरः इत्येते मृताः त्रयः। अन्ये न प्रत्यभिज्ञाताः। ये क्षताः ते कुलूस्थंमातुरालयं प्रवेशिताः।