OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, March 30, 2025

 जम्मुकाश्मीरे सुरक्षासेना-भीकरसंग्रामः।

त्रयः भीकराः निहताः; चतुर्णां सैनिकानां वीरमृत्युः।

कठुवा> जम्मुकाश्मीरे कठुवा जनपदे गुरुवासरे  सुरक्षासेनायाः भीकरैः सह संवृत्ते प्रतिद्वन्दे त्रयः भीकराः व्यापादिताः। परन्तु चत्वारः सुरक्षासैनिकाः वीरमृत्युं प्राप्ताः। द्वौ भीकरौ सजीवौ वर्तेते इति सूचनानुसारं ह्यः अपि मार्गणं भुषुण्डिप्रयोगः च अनुवर्तेते। 

 राजभागः इत्यत्र वर्तमानस्य आरक्षकनिस्थानस्य परिधौ जुतानास्थाने  आसीत् प्रतिद्वन्द्वः। त्रयाणां सैनिकानां मृतशरीराणि तद्दिने एव दृष्टानि। अन्येद्युः कृते ड्रोणयन्त्रपरिशोधने एकस्य सैनिकस्य मृतदेहोSपि अधिगतः।