म्यान्मराय विश्वस्य साह्यहस्ताः।
नय्पिडो> म्यान्मरे भूकम्पेन क्लेशमनुभूयमानानां जनानां विश्वराष्ट्राणां साहाय्यानि प्रवहन्ति। भोज्यौषधचिकित्सासेवनाद्यैः लोकराष्ट्राणि साह्यहस्तान् प्रासारयन्।
चीनेन १३५ संख्यायुतः दौत्यसंघः रक्षाप्रवर्तनाय नियुक्तः। रष्या च १२० सैनिकान् न्ययुङ्त। विश्वस्वास्थ्यसंघटनेन दुबाय् द्वारा समाश्वाससाहाय्यं क्रियते। भारतेन भोज्यवस्तूनि, औषधानि वस्त्राणि च म्यान्मरदुरन्तस्थानं समानीतानि।
चीनराष्ट्रेण १. ३८ कोटि डोलरमितस्य जीवकारुण्यसाह्यं सोमवासरतः प्राप्नोति। दक्षिणकोरियया द्विकोटि डोलर् मितस्य साह्यं दास्यति। अमेरिकया सर्वविधसाह्यं वाग्दत्तमस्ति।