OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, March 30, 2025

 गुजराते आन्दोलनं कुर्वन्तः २००० स्वास्थविभागसेवकाः विसृष्टाः। 

अहम्मदाबादः> विविधाः पृच्छाः उन्नीय मार्चमासस्य १२तमदिनादारभ्य अनिश्चितकालान्दोलनमारब्धवन्तः स्वास्थ्यविभागसेवकाः पदच्युताः भवन्तः सन्ति। अद्यावधौ द्विसहस्राधिके सेवकाः प्रशासनेन पदभ्रष्टाः अभवन्। आन्दोलनस्य निराकरणादृते चर्चा असाध्या इति स्वास्थ्यमन्त्रिणः ऋषिकेशपट्टेलस्य अवस्थितिः। ५००० सेवकजनाः आन्दोलने वर्तन्ते।