अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।
कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्।
२०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।