एस् एस् एल् सि , एछ् एस् एस् परीक्षाः श्वः आरभ्यन्ते।
अनन्तपुरी> केरले दशम्याः कक्ष्यायाः , +२ कक्ष्यायाः च वार्षिकी परीक्षाः सोमवासरे आरप्स्यन्ते। प्रतिदिनं प्रातः ९. ३० वादनतः ११. ४५ वादनपर्यन्तं दशमकक्ष्यापरीक्षाः [एस् एस् एल् सि] विधास्यन्ते। उच्चतरक्ष्याणां [+२] परीक्षाः मध्याह्नानन्तरं सार्धैकवादनात् सायं सपादचतुर्वादनपर्यन्तं प्रचालयिष्यन्ते।
एस् एस् एल् सि परीक्षाः , +२ परीक्षाः च मार्च् २६ तमे दिनाङ्के समाप्स्यन्ते।