गासायां पुनरपि नरहत्या।
इस्रयेलस्य आक्रमणे ४०४ मरणानि।
अधिकतया बालकाः!गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।
जरुसलेमः> जनुवरि १९ तमे दिनाङ्के आरब्धे ४२ दिवसीय युद्धविरामे समाप्ते इस्रयेलेन गासां हत्याक्षेत्रं कृतम्। सोमवासरे रात्रौ मङ्गलवासरे च कृते व्योमाक्रमणे ४०४ पालस्तीनीयाः हताः, ५६२ जनाः क्षताश्च। मेतेषु अधिके बालकाः भवन्तीति पालस्तीनस्य स्वास्थ्यविभागेन निगदितम्।
गासायाः उत्तर दक्षिणभागेषु वर्तमानानि भवनानि कुटीराणि च व्योमाक्रमणस्य लक्ष्यमभवत्। सप्ताहद्वयं यावत् गासां प्रति भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तूनि इस्रयेलेन निरुद्धानि आसन्। अनेन जनाः नूतनमभयस्थानं प्रति पलायनमारब्धवन्तः।