कानडायां मार्क् कार्णी प्रधानमन्त्रिपदं स्वीकृतवान्।
मन्त्रिमण्डले द्वौ भारतीयवंशजौ। मार्क् कार्णी।
ओट्टावा> कानडाराष्ट्रस्य २४ तमप्रधानमन्त्रिरूपेण 'लिबरल् पार्टी' इत्यस्य नेता मार्क् कार्णी [५९] शपथवाचनं कृत्वा पदं स्वीकृतवान्। जनुवरिमासे पदं त्यक्तवतः जस्टिन् ट्रूडोः अनुगामिरूपेण एव कार्णिनः पदलब्धिः।
२४ अंगयुक्ते मन्त्रिमण्डले द्वौ भारतीयवंशजौ स्तः। अनिता आनन्दः [शास्त्रं, व्यवसायः], कमल खेरा [स्वास्थ्यं] इत्येते महिले मन्त्रिसभायाम् अन्तर्भवतः।