केरलमुख्यमन्त्री केन्द्रवित्तमन्त्रिण्या सह राज्यपालस्य सान्निध्ये मिलितवान्।
राज्यस्य आर्थिक-विकसनकार्येषु निवेदनम्।केरला हौस् भवनेसम्पन्ने मेलने वामतः प्रोफ.के वि तोमसः, वित्तमन्त्री निर्मला सीतारामः, मुख्यमन्त्री पिणरायि विजयः, राज्यपालः आर् वि आर्लेकरः च।
नवदिल्ली> राष्ट्रराजधान्यां 'केरलाहौस्' भवने असाधारणं किमपि मेलनं बुधवासरे सम्पन्नम्। केरलस्य मुख्यमन्त्री पिणरायि विजयः राष्ट्रस्य वित्तमन्त्रिणी निर्मला सीतारामः च केरलराज्यपालः राजेन्द्र विश्वनाथ आर्लेकर् वर्यस्य साक्षित्वे सम्मिलितवन्तौ। मुख्यमन्त्रिणः आमन्त्रणमनुसृत्य आगताभ्यां वित्तमन्त्रि-राज्यपालाभ्यां प्रातराशसत्कारोSपि दत्तः। मेलनेSस्मिन् पिणरायिवर्यः निर्मलासीतारामं प्रति केरलस्य आर्थिकसङ्कटान्, विकसनोद्देश्यानि, वयनाट् पुनरधिवासप्रकरणम् इत्यादिविषयानधिकृत्य निवेदनं समर्प्य साहाय्यमभ्यर्थितवान्।
सविशेषं किमपि दृढीकरणं न लब्धं तथापि केन्द्र-राज्यसंबन्धम् इतोSपि ऊष्मलं कर्तुमेतन्मेलनं सहायकमभवदिति कल्प्यते। दिल्ल्यां केरलस्य स्थानपतिः प्रोफ. के वि तोमसः च मेलने भागं गृहीतवान्।