सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्।
एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता।
![]() |
पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः। |
कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता।
८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति।
सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।
सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।