OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 4, 2025

 आङ्गलं यू एस् राष्ट्रस्य औद्योगिकी भाषा।

वाषिङ्टणः> आङ्गलभाषां यू एस् राष्ट्रस्य औद्योगिकभाषारूपेण विधत्ते आदेशे डोनाल्ड ट्रम्पेन हस्ताक्षरं कृतम्। यू एस् राष्ट्रस्य २५० संवत्सरीयचरिते प्रथममेवायमादेशः। औद्योगिकभाषापदात् स्पानिषभाषामपाकृतम्। 

  राष्ट्रस्य ऐक्यसंस्थापनाय सर्वकारस्य कार्यक्षमतावर्धनायैव अयं प्रक्रम इति वैट् हौस् अधिकारिभिरुक्तम्। किन्तु अयं परिष्कारः अमेरिकायां वर्तमानानां अनेकेषां भाषा - प्रवासिनां दोषाय भविष्यतीति मान्यते। राष्ट्रे ३५० अधिकाः भाषाः व्यवहारे सन्ति।