सिरिया संघर्षभरिता।
७० मरणानि।
लताकिया> बाषर् अल् असद् प्रशासनं प्रतिलोम्य विमतैः अधिकारं प्राप्ते सिरियाराष्ट्रे मासत्रयानन्तरं संघर्षः। लताकिया इति समुद्रतटप्रदेशे आयुधधारिणः असदनुकूलिनः सुरक्षासेना च मिथः सञ्जाते संघट्टने सप्तत्यधिकं जनाः हताः। अनेके व्रणिताः। मृतेषु ३५ सुरक्षासैनिकाः भवन्ति।