जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।
शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्। शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच।
गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायकाः भविष्यन्ति।
श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।