OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 7, 2025

 भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणप्रयासः अभवत्। 

     भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणप्रयासः अभवत् लण्डननगरे चथं हाउस् इत्यस्मिन् सङ्गोष्ठ्यां भागं ग्रहीतुं स्थिते खलिस्थानस्य भीकरात् आक्रमणप्रयासः जातः। विरोधिनः जयशङ्करस्य वाहनस्य समीपं उपगम्य भारतीयराष्ट्रध्वजं अनादृतवन्तः इति च चित्रेषु दृश्यते।


भारतस्य विदेशकार्यमन्त्रालयेन अस्य घटनायाः तीव्रं निन्दनं कृतं, तथा च ब्रिटनदेशः स्वीयं उत्तरदायित्वं पूर्णं करिष्यतीति अपेक्षितम्। ब्रिटनदेशस्य सर्वकारेण अपि एतद् घटननां तीव्रं निन्दित्वा, अपराधिनः न्यायसम्मुखे स्थापयितुं दृढप्रतिज्ञा स्वीकृता।