महात्मा गान्धि - श्रीनारायणगुरु समागमस्य शताब्द्युत्सवः अद्य शिवगिर्याम्।
शिवगिरिः > महात्मा गान्धी शिवगिरिं सम्प्राप्य केरलस्य आध्यात्मिकाचार्यं तथा समाजपरिष्कर्तारं च श्रीनारायणगुरुं सन्दर्श्य मार्च् १२ तमे दिनाङ्के शतवर्षाणि पूर्तीकरोति। अस्य समागमस्य स्मरणाकार्यक्रमाः शिवगिर्याम् अद्य उत्सवान्तरिक्षे आयोज्यन्ते।
अद्य प्रभाते वैदिकमठे सम्पद्यमाने संघप्रार्थनया कार्यक्रमः समारभ्यते। दशवादने यत्र गुरु-गान्धिसमागममभवत् गान्धियाश्रमः इति कृतनामधेयं वनजाक्षिमन्दिरं समागमशताब्दिस्मारकरूपेण महात्मनः प्रपौत्रः तुषारगान्धिवर्यः समर्पयिष्यति। गुरु-गान्धिनोः मेलनानन्तरं ताभ्यां गिवगिरिं कृतं प्रयाणमनुस्मारयन् वनजाक्षिमन्दिरात् गिवगिरिं प्रति 'एकलोक सङ्कल्पसन्देशयात्रा' विधास्यते। तस्यां यात्रायां तुषारगान्धी, गिवगिर्यां सन्यासिनः, गान्धियाश्च नेतृत्वमावक्ष्यन्ति।
अनन्तरं मठाधिपतेः सच्चिदानन्दस्वामिनः आध्यक्षे आयोज्यमाने सम्मेलने बहवः राजनैतिक-सांस्कृतिक-आध्यात्मिकनेतारः ऐक्यसन्देशान् दास्यन्ति।