![]() |
CSU Guruvayoor Campus |
दशमकक्ष्याम् उत्तीर्णवतां महाविद्यालये उपरिपठनाय अवसरः अस्ति, +2 तः Ph. D पर्यन्तं महाविद्यालयाध्ययनाय केन्द्रीयविश्वविद्यालये सुविधा अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालस्य (Central Sanskrit University) विविधराज्यस्तरीय-परिसरेषु संस्कृतभाषया सह वैज्ञानिकविषयाणाम् अध्ययनाय शतप्रतिशतं छात्रवृत्त्या (Scholarship) सह अवसरः अस्ति। दशमकक्ष्याम् उत्तीर्णवतां छात्राणां प्राक्-शास्त्री (+2 तुल्यः) इत्यारभ्य Ph.D पर्यन्तं महाविद्यालये / विश्वविद्यालये अध्ययनं शक्यते इत्यस्ति विशेषता। भारतस्य विभिन्नराज्येषु विद्यमानेषु केन्द्रीयसंस्कृतविश्वविद्यालस्य परिसरेषु अपि अवसराः सन्ति। उत्तरदिशि जम्मु-काश्मीरतः आरभ्य दक्षिणे केरलराज्यपर्यन्तं प्रादेशिकपरिसरैः आदर्शविद्यापीठैः च विस्तृतः भवति अयं विश्वविद्यालयः।
केरळेषु तृश्शूर् जनपदे विश्रुते गुरुवायूर् परिसरे अस्य संवत्सरस्य प्रवेशनकार्यक्रमः आरब्धः। परिसरेऽस्मिन् विद्यमानाः पाठ्यक्रमाः प्राक् शस्त्री (+2 तुल्यः), चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (ऐटेप्प् - बि.ए बि. एड् तुल्यः), शास्त्री (बि.ए तुल्यः), आचार्यः (एम्. ए तुल्यः), शिक्षाशस्त्री ( बि. एड् तुल्यः), विद्यावारिधिः ( पि एच्च्. डि तुल्यः) तथा आयुर्वेद-योगः इत्यादिविषयेषु प्रमाणपत्रीयपाठ्यक्रमाः (Diploma Courses) च भवन्ति। पाठ्यक्रमेषु प्राक्-शास्त्री विहाय अन्येषु प्रवेशः राष्ट्रिय परीक्षा एजेन्सी (NTA) द्वारा आयोज्यमाना केन्द्रीयविश्वविद्यालयसंयुक्त प्रवेशनपरीक्षा ( CUET ) द्वारा एव भविष्यति। प्राक् शास्त्री (+2) प्रवेशनार्थं प्रवेशनपरीक्षा प्रादेशिकपरिसरद्वारा समायोज्यते।
केरळराज्ये चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (BA B.Ed) पाठ्यक्रमः केवलं संस्थात्रयेषु एव गतवर्षादारभ्य आरब्धः। तेषु अन्यतमा संस्कृतसंस्था भवति केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः। अन्ये तु एन्. ऐ. टि कालिक्कट् बि.एस् सी बि.एड् तथा केरलाकेन्द्रीयविश्वविद्यालस्य बि.ए/ बि.कोम् /बि.एस् सी बि.एड् च। अत्र केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः विशिष्य संस्कृते एव चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रचाल्यते। ये एकीकृत शास्त्रीशिक्षाशस्त्री पाठ्यक्रमः न वाञ्चति तर्हि तेषां कृते केवलं शास्त्री पाठ्यक्रमः विभिन्नशास्त्रेषु पठितुम् अवसरः च अस्ति।
अत्रत्यः विशेषताः
1. शास्त्री आरभ्य विद्यावारिधिपर्यन्तं वेदान्त-न्याय- व्याकरण-ज्योतिष-साहित्यादि पञ्च शास्त्रीयविषयेषु पठितुम् अवसरः।
2. शतप्रतिशतं छात्रवृत्ति:।
3. पाठ्यक्रमे संस्कृते पारम्पर्यशास्त्रविषयान् विहाय राष्ट्रशिक्षानीतिः-2020 अनुसृत्य आङ्गलेयं, हिन्दी, चरित्रम्, सामाजिकशास्त्रं, नीतिशास्त्रं, अर्थशास्त्रं, सङ्कणकं, धर्मशास्त्रं, योगः इत्यादि आधुनिकविषयेष्वपि अध्ययनावसरः परिकल्प्यते।
4. NCrF अनुसृत्य मूल्याङ्कनं भवति ।
5. बहुभाषायां तथा बहुशास्त्रेषु च निष्णाताः प्राध्यापकाः पाठयन्ति।
7. राष्ट्रस्तरीय कला-कायिक-शास्त्र-साहित्यस्पर्धासु भागं ग्रहीतुं छात्राणाम् अवसरः भवति।
8. परिसरे एव बालिका-बालकानां कृते छात्रावासः लभ्यते इति कारणेन आभारतं छात्राणां कृते प्रवेशनार्थं सुव्यवस्था वर्तते ।
अस्मिन् संवत्सरे प्रवेशः इदानीं राष्ट्रिय परीक्षा एजेन्सी द्वारा आयोज्यमानः अस्ति।
📌 चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रवेशनाय आवेदनार्थं https://ncet2025.ntaonline.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 16 मार्च् 2025 समयः 11:50 पर्यन्तम् ।
📌 शास्त्री प्रवेशानाय आवेदनार्थं https://cuet.nta.nic.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 22 मार्च् 2025 समयः 11:50 पर्यन्तम् ।
गुस्वायूर् परिसरस्य अन्तर्जालसूत्रम्
https://www.csu-guruvayoor.edu.in/
लेखिका -
डा. राधिका. पि. आर्,
सहायकाचार्या,
केन्द्रीयसंस्कृतविश्वविद्यालयः गुरुवायूर् - परिसरः