अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।
अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्। वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।
तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।