OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, March 29, 2025

 नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।

  चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥