भारतेन मार्गमाणः भीकरः पाकिस्थाने अज्ञातैः निहतः।
इस्लामबादः> पाकिस्थानीय भीकरसंघटनं लष्कर् ई तोय्बा इत्यस्य उन्नतनेता कमान्डरपदीयः जम्मुकाश्मीरे दुरापन्नस्य बहूनां भीकराक्रमणानां सूत्रधारश्च अबु खत्तल नामकः [४३] पाकिस्थाने अज्ञातैः भुषुण्डिप्रयोगेण निहतः। शनिवासरस्य रात्रौ पञ्चाबप्रान्ते झलं क्षेत्रे आसीदियं घटना। द्विचक्रिकया प्राप्ताभ्यां द्वाभ्यां कृते भुषुण्डिप्रयोगेण खत्तलेन सह अङ्गरक्षकोSपि हतः।
जम्मु-काश्मीरे विधत्ते भीकराक्रमणानां नाम्नि राष्ट्रियान्वेषणनियोजकसंस्थया मार्गमाणो भवति खत्तलः। २००८ तमवर्षे आयोजितस्य मुम्बई भीकराक्रमणस्य सूत्रधारोSपि एष आसीत्।