विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः।
नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः।
वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।