भारत - इङ्लाण्ट् एकदिनस्पर्धापरम्परा भारतेन प्राप्ता।
द्वितीये एकदिने रोहितशर्मणः शतकेन भारतस्य चतुर्द्वारकाणां विजयः।शतकं प्राप्तवतः रोहितशर्मणः 'नटराजस्थितुः'।
कटक्> उज्वलशतकेन रोहित शर्मणः नायकत्वे इङ्लण्टं विरुध्य द्वितीये एकदिने भारतस्य चतुर्द्वारकाणां सम्पूर्णविजयः। अनेन क्रीडात्रयात्मिका परम्परा भारतेन २ - ० इति क्रमेण स्वायत्तीकृता। टि - २० परम्परा अपि भारतेन स्वायत्तीकृता आसीत् [४ - १]
रोहितः ९० कन्दुकैः ११९ धावनाङ्कान् सम्प्राप्तवान्। श्रेष्ठक्रीडकोSपि स एव। अङ्कप्राप्तिः - इङ्लण्ट् ४९. ५ क्षेपणचक्रेषु ३०४ धावनाङ्काः। भारतं ४४. ३ क्षेपणचक्रेषु ६ द्वारकाणां विनष्टे ३०८ धावनाङ्काः।