भारतीयप्राशासनिकवित्तकोशेन 'रिप्पो'मानं न्यूनीकृतम्।
मुम्बई> पञ्चवर्षेभ्यः पश्चात् प्रथमतः भारतीयप्राशासनिकवित्तकोशेन [ Reserve Bank of India] वित्तकोशेभ्यः दीयमानानाम् ऋणानां वृद्धिमानं [Rippo rate] न्यूनीकृतम्। शुक्रवासरे समाप्ते आर् बि ऐ संस्थायाः मुद्रानयोपवेशने आसीत् अयं निर्णयः। रिपोमानं ६. ५०% इत्यस्मात् ६. २५% इति न्यूनीकृतम्।
निर्णयोSयं ये वित्तकोशेभ्यः ऋणं स्वीकुर्वन्ति तेभ्यः सहयको भविष्यति। भवननिर्माणक्षेत्रे उपभोगवर्धनं प्रतीक्षते।