मावोवाद्याखेटने अस्मिन् वर्षे ६५ जनाः हताः।
११ सैनिकानां वीरमृत्युः।
बीजापुरं> छत्तीसगढे बीजापुरे अस्य वर्षस्य मासद्वयाभ्यन्तरे ६५ मावोवादिनः सुरक्षासेनया सह संग्रामे मृत्युमुपगताः। ११ सैनिकाः अपि वीरमृत्युं प्राप्तवन्तः। ८१ मावोवादिनः समर्पितायुधाः सन्तः आत्मसमर्पणं कृतवन्तः।
२०२४ तमे वर्षे छत्तीसगढे एव २१९ मावोवादिनः प्रतिद्वन्द्वे हताः। मार्च् ३१ तमदिनाङ्काभ्यन्तरे राष्ट्रं मावोवादिमुक्तं करिष्यतीति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्।