विधानसभा उपनिर्वाचनम्-
मिल्कीपुरे भा ज पा ; ईरोडे डि एं के च व्यजयत।
नवदिल्ली> पञ्चमे दिनाङ्के द्वयोः मण्डलयोः सम्पन्नस्य विधानसभायाः उपनिर्वाचनस्य फलमागतम्।
उत्तरप्रदेशे मिल्कीपुरमण्डले भा ज पा स्थानाशी चन्द्रभानु पास्वानः विजितवान्। प्रतिद्वन्दी समाजवादी पार्टी इत्यस्य अजित् प्रसादं ६१,७१० मतानां भूरिसंख्यायां पराजितवान्। तथा च तमिलनाटे ईरोड् मण्डले डि एं के स्थानाशी वि सि चन्द्रकुमारः मुख्यप्रतिद्वन्दिनम् एम् के सीतालक्ष्मीं ९०,६२९ मतानां व्यत्यये विजयीभूतः। चन्द्रकुमारादृते सर्वेषां समर्पितधनं विनष्टम्।