काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः।विधुशेखरभारती स्नामिनः कुम्भाभिषेकं कुर्वन्ति।
वाराणसी> जगद्गुरुणा श्रीशङ्कराचार्येण प्रतिष्ठा कृता इति विश्वास्यमाने काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः। श्रृङ्गेरी मठाधिपतेः शङ्कराचार्यस्य भारतीतीर्थस्य सान्निध्ये अनन्तरगामी विधुशेखरभारती प्रतिष्ठा महाकुम्भाभिषेकं निरवहत्।
पञ्चशतं वेदपण्डितानां भागभागित्वे सहस्रचण्डिमहायज्ञः, कोटिकुङ्कुमार्चना, महारुद्रयज्ञः इत्यादयः कार्यक्रमाः अपि सम्पन्नाः। कुम्भाभिषेकोत्सवः रविवासरे समाप्स्यते।