मणिपुरे राष्ट्रपतिप्रशासनं विधत्तम्।
नवदिल्ली> नूतनं मुख्यमन्त्रिणं निर्णेतुं राज्यस्थस्य भा ज पा नेतृत्वस्य नाशक्यत इत्यतः मणिपुरराज्ये राष्ट्रपतिप्रशासनं विधातुं निर्णयः कृतः। संविधानानुसारं षण्मासाभ्यन्तरे राज्ये विधानसभासम्मेलनमाकारितव्यम्। बुधवासरे तत्कालपरिधिः समाप्त आसीत्। तादृशं संविधानप्रतिसन्धिमपाकर्तुमेव राष्ट्रपतिप्रशासनं विधत्तम्।