महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। 64 कोट्यधिकाः जनाः अस्मिन्महोत्सवे आगताः इति गणना; अद्य 2 कोट्यधिकाः तीर्थयात्रिकाः स्नानं करिष्यन्ति।
प्रयागराजे उत्तरप्रदेशे सम्पन्नमानः महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। त्रिवेणीसङ्गमे शिवरात्रिस्नानेन समापनं भविष्यति। अस्मिन्कुम्भमहोत्सवे 64 कोट्यधिकाः जनाः आगताः इति गणना। सार्वजनिकदिवसस्य विशेषत्वेन अद्य 2 कोट्यधिकानां तीर्थियत्रिकाः स्नानाय आगताः सन्ति। महाजनबाहुल्येन मेलानगरे सुदृढानि सुरक्षा-प्रबन्धनानि स्थापितानि।
ह्यः प्रभाते एव अमृतस्नानम् आरब्धम्। महाकुम्भमहोत्सवः केवलं धार्मिकसम्मेलनं न, अपितु हिन्दूनामैक्यस्य वैविध्यत्वस्य च प्रमाणपत्रम् इति उत्तरप्रदेशमुख्यमन्त्री योगी आदित्यनाथः अवदत्। अमृतस्नानाय सोमवासरादारभ्य जनाः अत्र निवासाय आगताः। जनसङ्घटनस्य नियन्त्रणाय, चिकित्सासहाय्यार्थं, स्वच्छतायै च विशेषव्यवस्थाः सर्वकारेण कृताः। सुरक्षा-यातायातयोः विषये अपि विशेषसावधानता प्रदत्ता। सम्मर्दनियन्त्रणाय नव-दिल्ली-प्रयागराज-रेलमार्गे व्यवस्थाः सुदृढीकृताः
कुम्भमहोत्सवे नव-दिल्ली-रेलस्थानके च जनसङ्घाते मृत्यूनां घटनाः जाताः इत्यस्मात् अतीव जागरूकता पालिता अस्ति।
चिकित्सायाः विशेषप्रबन्धाः, स्वच्छतायाः नवीनसङ्कल्पः
वैद्यकीय-एककानि 24-होरायां सज्जानि। ह्यः 15,000 अधिकाः स्वच्छताकर्मकराः मिलित्वा महायज्ञं कृतवन्तः। दशकिलोमीटरपर्यन्तं क्षेत्रं स्वच्छं कृतम्। एषः स्वच्छतायज्ञः विश्वप्रमाणग्रन्थे रेखांकितः इति उत्तरप्रदेशसर्वकारेण घोषितम्।
144 वर्षाभ्यन्तरे एकवारं भवति अयं महाकुम्भमहोत्सवः
जनवरीमासस्य 13 दिने पौषपूर्णिमास्नानेन अयं महोत्सवः आरब्धः। मकरसंक्रान्तिदिनं (जनवरी 14) - प्रथमशाहीस्नानम्, मौनीअमावासी दिनं (जनवरी 29) - द्वितीयशाहीस्नानम्, वसन्तपञ्चमीदिवसः (फरवरी 3) - तृतीयशाहीस्नानम्, माघपूर्णिमादिवसः (फरवरी 12) - अमृतस्नानम् इति विशेषस्नानानि अभवन्।