ग्यानेष कुमारः मुख्यनिर्वाचनायोगः। ग्यानेष कुमारः।
नवदिल्ली> वर्तमानकालीनः निर्वाचनायोगसमित्यङ्गः ग्यानेष कुमारः भारतस्य २६ तमायाः निर्वाचनसमित्याः अध्यक्षरूपेण नियुक्तः। इदानीन्तनः मुख्यनिर्वाचनायोगः राजीवकुमारः अद्य सेवानिवृत्तो भविष्यति। विवेक जोषी नूतनः आयोगसमित्यङ्गः भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी, विपक्षनेता राहुल गान्धी, गृहमन्त्री अमित शाहः इत्येतेषामुपवेशने आसीत् पूर्वोक्तनिर्णयः।