सुडाने सेनाविमानं प्रभञ्ज्य ४६ मरणानि।
पोर्ट् सुडान्> आफ्रिकायां सुडानराष्ट्रे सेनायाः यातायातविमानं राजधानू कार्टूम् इत्यत्र जनावासस्थाने निपत्य ४६ जनाः मृत्युवशं गताः। १० जनाः आहताः।
उड्डयनावसरे एव दुर्घटना अभवत्। मृतेषु सैनिकाः सामान्यजनाश्च अन्चर्भवन्ति इति सैनिकाधिकारिभिः निगदितम्।