आयव्ययपत्रसम्मेलनस्य प्रथमचरणं समाप्तम्।
नवदिल्ली> जनुवरि ३१ तमे दिनाङ्के आरब्धं संसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं गुरुवासरे समाप्तम्। नूतनमायकरविधेयकं, वखफ विधेयकं परिशोध्यमानस्य जे पि सि इति समित्या समर्पितमावेदनमित्येतौ अन्तिमदिने परिगणितौ विषयौ स्तः।
आगामिचरणं मार्च् १० तमदिनाङ्के आरभ्य एप्रिल् चतुर्थदिनाङ्के समाप्स्यते।