तेलङ्काने ८ कर्मकराः सुरङ्गे लग्नाः।
रक्षाप्रवर्तनं अनुवर्तते।
हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्।
राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।