OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, February 5, 2025

 अनधिकृताधिनिवेशः - २०५ भारतीयाः यू एस्तः निष्कासिताः। 

वाषिङ्टणः>  'रोयिटेर्स्' वार्तासंस्थया वृत्तान्तीकृतं यत् भारतात् अनधिकृतेन अमेरिकाममधिनिविष्टाः २०५ जनाः यू एस् सेनाविमानेन प्रतिनिवर्तिताः।  व्योमसेनायाः सि - 7 इति विमानम् एतानधिनिविष्टान् ऊढ्वा टेक्ससस्थात् सान् अन्टोणियो निलयात् मङ्गलवासरे पञ्चाबस्थं अमृसरं लक्ष्यीकृत्य प्रस्थितम्।

  अनधिकृताधिनिवेशिताः निष्कासितव्याः इति निर्वाचनप्रचारणकाले ट्रम्पेण प्रस्तुतमासीत्। यू एसस्य प्रक्रमः विंशतिसहस्राधिकान् भारतीयान् प्रतिकूल्यते इति चिन्ता वर्तते।