राष्ट्रियक्रीडायां पादकन्दुकस्पर्धायां केरलाय सुवर्णपतकम्।
सुवर्णप्राप्तिः २७ संवत्सरेभ्यः पश्चात्।
कायिकस्पर्धाः अद्य आरभ्यन्ते।
हल्द्वानी> राष्ट्रियक्रीडायाः पादकन्दुकस्पर्धापरम्परायाः अन्तिमे प्रतिद्वन्द्वे आतिथेयराज्यम् उत्तराखण्डं प्रत्युत्तररहितं एकलक्ष्यकन्दुकेन पराजित्य केरलं सुवर्णपतकं प्राप्नोत्। २७ संवत्सराणां अवकाशानन्तरमेव केरलस्य सुवर्णलब्धिः।
क्रीडायाः ५३ तमे निमिषे एस् गोकुलः केरलाय विजयक्ष्यं सम्प्राप्तवान्। इदानीं केरलं १० सुवर्णं, ९ रजतं, ७ कांस्यं चोपलभ्य २६ अङ्कैः अष्टमस्थाने वर्तते।