OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, February 7, 2025

 गासायाम् अधिवासनिराकरणं - ट्रम्पं विरुध्य आगोलप्रतिषेधः। 

नाशितस्य गासानगरवीथेः दृश्यम्। 

वाषिङ्टणः> गासायां पालस्तीनीयान् अपसृत्य गासाप्रदेशं पुनर्निर्मातयिष्यतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रख्यापनं विरुध्य अन्ताराष्ट्रस्तरे प्रतिषेधः शक्तोSभवत्। ईजिप्त्, जोर्दानमित्यादीनि राष्ट्राणि, अमेरिकायाः इतराणि सख्यराष्ट्राण्यपि ट्रम्पस्य प्रक्रमे आशङ्कां प्राकट्य अग्रे आगतवन्ति सन्ति। 

  किन्तु गासायामधिनिवेशं कर्तुमुद्दिश्य ट्रम्पस्य निगूढलक्ष्यमेव गासापुनर्निर्माणप्रख्यापने निलीनमिति हमासेन प्रस्तुतम्। शीघ्रमेव अरब उच्चशिखरसम्मेलनमाहूय गासानिवासिनामपाकर्तुम् अमेरिकायाः प्रक्रमः निरुद्धव्य इति च हमासेन निर्दिष्टम्।