OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 1, 2025

 भारतं प्रवर्धत इति आर्थिकसमीक्षणम्।

नवदिल्ली> भौगोलिकस्तरे राजनैतिक-आर्थिकानिश्चितत्वानि वर्तन्ते अपि भारतस्य आर्थिकव्यवस्था प्रवर्धमानां रीतिमवलम्बते इति सूच्यते। गतदिने राष्ट्रस्य आयव्ययपत्रावतरणस्य अंशतया संसदि वित्तमन्त्रिण्या निर्मला सीतारामेण समर्पिते आर्थिकान्वीक्षणपत्रे अस्त्ययं मूल्यनिर्णयः। 

  २०२४ - '२५ आर्थिकसंवत्सरे राष्ट्रस्य आभ्यन्तरार्थिकाभिवृद्धिः [जी डी पी] ६. ३ - ६. ८ प्रतिशतमिति प्रतीक्षते। जी डी पी वर्धनाय बहवः उपायाः अपि आर्थिकान्वीक्षणपत्रे निर्दिश्यन्ते।