OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, February 28, 2025

 मार्पापावर्यस्य स्वास्थ्यं श्रेष्ठतरं जातम्। 

प्रार्थनाकार्यक्रमे भागं गृहीतवान्। 


रोमः> श्वासकोशाणुबाधया आतुरालये परिचर्यायां वर्तमानस्य मार्पापावर्यस्य स्वास्थ्यावस्था शुभकरी वर्तते इति वत्तिक्कानस्य औद्योगिकविभागेन निगदितम्। आराधनालये प्रार्थनायाम् इतराराधनाकार्यक्रमेषु च तस्य भागभाग्त्वमासीत्।

  गते १४ तमे दिनाङ्के आसीत् सः आतुरालयं प्रविष्टः। श्वासकोशे अणुबाधा न्यूना अभवत्। किन्तु शुश्रूषा अनुवर्तते।

 अद्य आकाशे दृश्यविस्मयः। 

सप्त ग्रहाः समानदिशां प्राप्नुवन्ति। 


नवदिल्ली> सौरयूथम् अत्यपूर्वदृश्यविस्मयाय सिद्धमस्ति। सप्त ग्रहाः - बुधः,शुक्रः, कुजः, बृहस्पतिः शनिः,यूरानस्, नेप्ट्य्णः, - सूर्यस्य समानदिशां विन्यस्यन्ते। २०२५ फेब्रुवरि २८ तमे दिनाङ्के रात्रौ भारते अपि एतत् द्रष्टुं शक्यते। 

  २०२५ मार्च मासस्य तृतीयदिनाङ्कपर्यन्तं भारते अपूर्वमेनं ज्योतिशास्त्रविस्मयं  द्रष्टुं शक्यते। जनुवरिमासे अयं विन्यासः आरब्धः। बुधादृते अन्ये षट् ग्रहाः इदानीमेव विन्यस्ताः सन्ति। अद्य बुधस्य विन्यासेन एतत् पूर्तीकरिष्यति।

Thursday, February 27, 2025

 चाम्प्यन्स् ट्रोफी - 

अफ्गानिस्थानात् पराजयं स्वीकृत्य इङ्लाण्टः बहिर्गतः।

शतकं प्राप्तवान् इब्राहिम सद्रानः।

लाहोर्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः गतदिने अफ्गानिस्थानस्य इङ्लाण्टं विरुध्य प्रतिलोमविजयः। इब्राहिम सद्रानस्य अत्युज्वलशतकस्य [१७७] बले महत्प्राप्ताङ्कान् [३२५] सम्पाद्य इङ्लाण्टं ८ धावनाङ्कैः पराजयत। द्वितीयचरणे प्रत्युत्तरताडने  इङ्लाण्टस्य जो रूटः शतकं [१२०] प्राप्तवानपि अफ्गानिस्थानस्य निश्चयदार्ढ्ये विजयतीरमवाप। 

  प्राप्ताङ्कसूचिका - अफ्गानिस्थानं ५० क्षेपणचक्रेषु ३२५/७ ; इङ्लाण्टः ४९. ५ क्षेपणचक्रेषु ३१७ /१०। अनेन इङ्लाण्टः क्रीडापरम्परायाः बहिर्नीतः। 

 सुडाने सेनाविमानं प्रभञ्ज्य ४६ मरणानि।

पोर्ट् सुडान्> आफ्रिकायां सुडानराष्ट्रे सेनायाः यातायातविमानं राजधान्यां कार्टूम् इत्यत्र जनावासस्थाने निपत्य ४६ जनाः मृत्युवशं गताः। १० जनाः आहताः। 

  उड्डयनावसरे एव दुर्घटना अभवत्। मृतेषु सैनिकाः सामान्यजनाश्च अन्तर्भवन्ति इति सैनिकाधिकारिभिः निगदितम्।

 महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। 64 कोट्यधिकाः जनाः अस्मिन्महोत्सवे आगताः इति गणना; अद्य 2 कोट्यधिकाः तीर्थयात्रिकाः स्नानं करिष्यन्ति। 

   प्रयागराजे उत्तरप्रदेशे सम्पद्यमाना महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। त्रिवेणीसङ्गमे शिवरात्रिस्नानेन समापनं भविष्यति। अस्मिन्कुम्भमहोत्सवे 64 कोट्यधिकाः तीर्थयत्रिकाः आगताः इति गणना। सार्वजनिकदिवसस्य विशेषत्वेन अद्य 2 कोट्यधिकाः तीर्थियत्रिकाः स्नानाय आगताः सन्ति। महाजनबाहुल्येन मेलानगरे सुदृढानि सुरक्षा-प्रबन्धनानि स्थापितानि।

 जि मेयिल् इत्यस्मै नवसुरक्षासंविधानं - क्यू आर् कोड् ।


  आविश्वं जनाः अणुप्रैष-प्रेषणाय उपयुज्यमाना सुविधा भवति 'जि मेल्'। उपभोक्तॄणां लेखायै अधिकसुरक्षायै नूतनव्यवस्थाम् अयोजयितुम् अधुना निश्चितः।  QR Code संविधानम् उपयोक्तुमेव भवति उद्देश्यः। एस् एम् एस् द्वारा लब्धा गूढसंख्या अन्तर्जालतस्करेभ्यः लब्धुमवसरः अस्ति इत्यनेन भवति अयं नूतनः परिष्कारः। विना विलम्बं परिष्कारोऽयं प्रबलः भविष्यति इत्यस्ति प्रतिवेदनम्।

Tuesday, February 25, 2025

 चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुम् आगम्यमानान् विदेशीयान् अपहर्तुम् ऐ एस् भीकराः सज्जतां करोति। 

   लाहोर्> चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुं आगम्यमानान् विदेशीयान् अपहर्तुम् 'ऐ एस् के पि' सङ्घेन गूढतन्त्राणि आविष्कृतानि इति पाकिस्थानियायाः रहस्यान्वेषणसंस्थायाः  पूर्वसूचना अस्ति। चैनाराष्ट्रियान् तथा आरबराष्ट्रियान् एव प्रधानतया एते संघाः लक्ष्यीकुर्वन्ति। मोचनद्रव्यार्थमेव तन्त्राणि आविष्क्रियन्ते इति प्रतिवेदनमस्ति।

Monday, February 24, 2025

 गङ्गाजलस्य स्वयम्‌-शुद्धीकरणशक्तिरस्ति - अजयः सोंकरः।

   प्रसिद्धः वैज्ञानिकः पद्मश्री डा. अजयः सोंकरः गङ्गायाः स्वयम्‌-शुद्धीकरणशक्तिं प्रतिपादयति। सः गङ्गायाः पञ्चसु स्नानस्थानेषु गत्वा जलं संगृह्य परीक्षणं कृतवान्। ए एन् ऐ इत्यनेन राष्ट्रियमाध्यमेन एषा वार्ता प्रकाशिता।

  गङ्गाजले ११०० प्रकाराणां बॅक्टेरियोफेज् (bacteriophage)- अणुखादी इति जीवाणूनाम् अस्तित्वमस्ति, ये सुरक्षा-सैनिकाः इव कार्यं कुर्वन्ति। ते हानिकरजीवाणून् शोधयन्ति, विनाशयन्ति च।

   षष्ट्यधिक-शतककोटिः जनाः कुम्भमहोत्सवे स्नात्वाऽपि गङ्गा रोगाणुभ्यः विमुक्ता भवति। अस्याः स्वयम्‌-शुद्धीकरणशक्तिरेव तस्य कारणम्। 'संशयालवः मम पुरतः परीक्षणं कृत्वा विश्वसितुं शक्नोति' इति डा. सोंकरः प्रतिपादयति।

  गङ्गा लोके अपूर्वा स्वयम्‌-शुद्धीकरणशक्तियुक्ता निर्मलजलनदी भवति इति सः वदति। बॅक्टेरियोफेज् जीवाणुखादी-जीवाणवः पञ्चाशद्गुणं लघवः सन्ति, किन्तु तेषां शक्तिः अद्भुतावहा एव।

   महाकुम्भमहोत्सवे सहस्रशः जनाः स्नान्ति, तदा निष्कासितान् रोगाणून् जीवाणुखादी-जीवाणवः निर्वीयं कुर्वन्ति। ते केवलं हानिकारीजीवाणून् नाशयन्ति, न तु शुभजीवाणून्। प्रत्येकः फेजः शीघ्रं १००-३०० नवीनान् उत्पादयति, दुष्टजीवाणून् नाशयन्ति च।

 डा. सोंकरः अर्बुदः, आनुवंशिक-सङ्केतः, 'सेल् बयोलजि', ओट्टोफागी'  इत्यादिषु वैश्विक-गवेषकः अस्ति। वागनिङ्गन्-विश्वविद्यालयः, रैस्-विश्वविद्यालयः, टोकियो-प्रौद्योगिकी-संस्थानम्, हार्वर्ड्-मेडिकल्-विद्यालयः इत्यादिषु सः सहकार्यं कृतवान्।

  पोषकाहारः, हृद्रोगः, मधुमेहः इत्यादिषु अपि तस्य अनुसन्धानम् अस्ति। ह्यूस्टन्-नगरे विद्यमानस्य रैस्-विश्वविद्यालयस्य जीन्-सङ्केततन्त्रे तस्य कर्म प्रशंसार्हम् एव भवति।

 अनधिकृताधिनिवेशः - चतुर्थसंघः दिल्लीं प्राप्तः। 

नवदिल्ली> अमेरिक्कातः निष्कासितानां भारतीयानां चतुर्थसंघः नवदिल्ली विमाननिलयं प्राप्तः। १२ जनाः सन्ति। ५ जनाः पञ्चाबीयाः भवन्ति।

 चाम्प्यन्स् ट्रोफी - पाकिस्थानं विरुध्य अपि भारतस्य विजयः। 

शतकप्राप्त्यनन्तरं विराट कोली।

दुबाय्>  चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धापरम्परायां भारतस्य द्वितीयस्पर्धा अपि भारतेन विजिता। ह्यः सम्पन्ने दिवानिशप्रतिद्वन्द्वे पाकिस्थानं चतुर्णां ताडकानां विनष्टेन पराजयत। विराट कोली शतकं प्राप्य अबाह्यः अभवत्।  श्रेष्ठक्रीडकपदं च तेन लब्धम्। 

  प्राप्ताङ्कसूचिका - प्रथमचरणे पाकिस्थानं ४९. ४ क्षेपणचक्रेषु २४१ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। भारतं तु ४२. ४ क्षेपणचक्रेषु २४४/४। अनया क्रीडया भारतस्य चतुर्थांशप्रवेशः अनायासः भवेत्।

Sunday, February 23, 2025

 ३२ धीवराः श्रीलङ्कानौसेनया निगृहीताः। 

कोलम्बो> भारतीयाः ३२ धीवराः श्रीलङ्कायाः नौसेनया निगृहीताः। १२ नौकासु मत्स्यबन्धनं कुर्वन्तः आसन्। समुद्रसीमामुल्लङ्घितवन्तः इत्यारोप्य आसीत् निग्रहणम्।

 तेलङ्काने ८ कर्मकरा‌ः सुरङ्गे लग्नाः। 

रक्षाप्रवर्तनं अनुवर्तते। 

हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्। 

  राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।

Saturday, February 22, 2025

 मणिपुरे प्रशासनरूपीकरणय उत्साहः। 

इम्फलः> मणिपुरराज्ये राष्ट्रपतिशासनं समाप्य सर्वकारं रूपीकर्तुम् उद्यमः आरब्धः। तस्य अंशतया आराज्यं सुरक्षापरिशोधनं कर्कशं विधत्तम्। बिष्णुपुरजनपदात् तीव्रवादिजनाः निगृहीताः। तेषां सकाशात् महदायुधसञ्चयः निगृहीतः।  ११ उन्नताधिकारिणः स्थानपरिवर्तनविधेयाः अभवन्।

 दिल्ली विधानसभासम्मेलनम् आगामिसप्ताहे। 

नवदिल्ली> दिल्ली विधानसभायाः सम्मेलनम् सोमवासरादारभ्य गुरुवासरपर्यन्तं विधत्तुं निश्चिकाय। प्रथमदिनद्वये सदस्यानां शपथवाचनं प्रचलिष्यति। 

  भा ज पा नेता विजेन्दर् गुप्तः सभानाथः भविष्यतीति सूच्यते। भूतपूर्वमुख्यमन्त्रिणीम् अतिषीं विपक्षनेत्रीं कर्तुम् आम् आद्मी पार्टीदलेन चर्चा प्रचाल्यते।

 मार्पापावर्यस्य स्वास्थ्यावस्था भद्रतरा।


रोमः> ब्रोङ्कैटिस् इत्यनेन रोगेण आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यः स्वास्थ्यावस्था भद्रतरा इति सूच्यते। ज्वरः नियन्त्रणाधीनः वर्तते। श्वासकोशे अणुबाधा च आश्वासप्रदा। शय्यावलम्बी अपि दैनंदिनकर्मसु निरतः इति आतुरालयाधिकृतैः निगदितम्। तथापि सः समग्रनिरीक्षणे एवानुवर्तते।

Friday, February 21, 2025

 रेखा गुप्ता शपथवाचनं कृतवती।

रेखा गुप्ता शपथवाचनं करोति। वेदिकायां प्रधानमंत्री नरेन्द्रमोदी ।

नवदिल्ली> चतुर्थांशशतकानन्तरं दिल्ली राज्ये रेखा गुप्तायाः नेतृत्वे भा ज पा प्रशासनं पदं प्राप।  राष्ट्रराजधान्याः नवममुख्यमन्त्री चतुर्थमहिलामुख्यमन्त्री च भवति रेखा गुप्ता। तया सह षट् मन्त्रिणश्च सत्यशपथं कृतवन्तः। 

  रामलीला क्रीडाङ्कणे आयोजिते कार्यक्रमे लफ्टनन्ट् राज्यपालः वि के सक्सेनावर्यः शपथवाचनं कारितवान्। पर्वेश शर्मा, मञ्जीन्दर् सिंह सिर्सा, रवीन्द्रकुमार इन्द्रजः, कपिल मिश्रः, आशिष सूद्, पङ्कजकुमार सिंहः इत्येते अपि  मन्त्रिरूपेण शपथवाचनं कृतवन्तः। 

  प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठाः केन्द्रमन्त्रिणः, एन् डि ए सख्यस्य इतरराज्यस्थाः मुख्यमन्त्रिणः इत्यादयः कार्यक्रमे भागं स्वीकृतवन्तः।

Thursday, February 20, 2025

 चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।

  अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः  A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।

 रष्या - यू एस् नूतनं गाढसौहृदम्। 

पुतिन -ट्रम्पयोः दूरवाणीसम्भाषणं हेतु‌ः। 

रियादः> युक्रेन - रष्ययोः युद्धं समापयितुमुद्दिश्य सौदी अरेबियायां रियादे कुजवासरे सम्पन्ने उपवेशने रष्या - यू एस् गाढसौहृदाय सम्मतः जातः। यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पस्य रष्यायाः राष्ट्रपतिः व्लोदिमर् पुतिनस्य मिथः सम्पन्नं दूरवाणीसंभाषणं नूतननयपरिवर्तनस्य कारणमभवत्। 

  मुख्यनिर्णयाः एवम् - 

* यू एस् रूसयोः नयतन्त्रसम्बन्धं पुनःस्थापयिष्यति। उभयराष्ट्रसम्बन्धस्य दृढीकरणाय परस्परं स्थानपतिनियुक्तिं विधास्यति।

* युक्रैने शान्तिस्थापनार्थं उभयराष्ट्रेण प्रतिनिधिसंघः रूपीकरिष्यते। 

* विभिन्नमण्डलेषु  यू एस् रूसयोः सौहृदपुनःस्थापनाय अवसरं विधास्यति।

 रेखा गुप्ता दिल्ल्यां मुख्यमन्त्रिणी। 

शपथवाचनमद्य। 


नवदिल्ली> दिल्लीराज्ये पुनरपि महिलामुख्यमन्त्री। महिला मोर्चादलस्य देशीयोपाध्यक्षा रेखा गुप्ता मुख्यमन्त्रिरूपेण भा ज पा नेतृत्वेन प्रख्यापिता। दिल्ल्याः चतुर्था महिलामुख्यमन्त्री भवति ५० वयस्का रेखागुप्ता। 

  शपथवाचनमद्य मध्याह्ने रामलीला क्रीडाङ्कणे सोत्साहं विधास्यति। लक्षाधिकं जनान् भागं ग्राहयितुं प्रयत्नः प्रचाल्यते।

 चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।

  अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः  A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।

Wednesday, February 19, 2025

 वैद्यदम्पत्योः ७. ६५ कोटि अपहृतम्। 

द्वौ ताय्वान देशीयौ निगृहीतौ। 

आलप्पुष़ा> केरले आलप्पुष़ा जनपदे चेर्तला प्रदेशीयाभ्यां दम्पत्योः ओण् लेन् अंशकव्यापाररूपेण ७. ६५ कोटि रूप्यकाणि अपहृतानीत्यस्मिन् प्रकरणे द्वौ ताय्वान देशीयौ निगृहीतौ। अन्ताराष्ट्रियस्तरे अन्तर्जालिकापराधकृत्येषु व्यापृतौ तैवाने पिङ्चेन् प्रदेशीयौ वाङ् चुन् वेय् [२६], षेन् वेय् हो [३५] नामकावेव अहम्मदाबादे निगृहीतौ। एतौ आलप्पुष़ां नीतौ। 

  विविधानां संस्थानां प्रतिनिधिरूपेण अलीकप्रमाणानि प्रदर्श्य अधिकलाभं लप्स्यते इति प्रलोभनं कृत्वा वैद्यदम्पतीः वञ्चितवन्तौ।

 भारत - खत्तर सन्धिपत्रं हस्ताक्षरीकृतम्। 

युगलशुल्कमपाक्रियते। नूतनेषु पञ्चमण्डलेषु उभयसम्मतिपत्राणि।

भारतप्रधानमन्त्री खतर अमीर् इत्यनयोः मेलनात्। 

नवदिल्ली> विविधमण्डलेषु निक्षेपः,परस्परसहयोगः इत्यादीनां संवर्धनमुद्दिश्य परस्परभागभागित्वसन्धिपत्रं  भारत-खत्तरराष्ट्राभ्यां हस्ताक्षरीकृतम्। युगलशुल्कमपाकर्तुं, करापहरणं प्रतिरोद्धुं चोद्दिश्यमानं सन्धिपत्रद्वयं हस्ताक्षरीकृतम्। दिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी खत्तरस्य अमीर् शैख् तमीं बिन् हमद् अल् तानी इत्यनयोः मेलनस्यानन्तरमेव सन्धिपत्रद्वयं, सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

  सम्मतिपत्राणां विषयाः एवं - 

१ परस्परार्थिकसहयोगः।

२ युवजनविषयः कायिकमण्डलं च।

३ पुरावृत्तसंरक्षणम् उल्लेख्यप्रमाणं च [Archives and Documentation]

४ 'इन्वेस्ट् इन्डिया, इन्वेस्ट् खतर्' इत्यनयोः सहयोगः। 

५ Confederation of Indian Industry , Qutheri Business men Association इत्यनयोः संघटनयोः सहयोगः।

Tuesday, February 18, 2025

 ग्यानेष कुमारः मुख्यनिर्वाचनायोगः। 

ग्यानेष कुमारः। 

नवदिल्ली> वर्तमानकालीनः निर्वाचनायोगसमित्यङ्गः ग्यानेष कुमारः भारतस्य २६ तमायाः  निर्वाचनसमित्याः अध्यक्षरूपेण नियुक्तः। इदानीन्तनः मुख्यनिर्वाचनायोगः राजीवकुमारः अद्य सेवानिवृत्तो भविष्यति। विवेक जोषी नूतनः आयोगसमित्यङ्गः भविष्यति। 

  प्रधानमन्त्री नरेन्द्रमोदी, विपक्षनेता राहुल गान्धी, गृहमन्त्री अमित शाहः इत्येतेषामुपवेशने आसीत् पूर्वोक्तनिर्णयः।

 मार्पापावर्यस्य रोगावस्था सङ्कीर्णा। 


रोमः> 'ब्रोङ्कैटिस्' इत्यनेन रोगेण चतुर्दिनेभ्यः पूर्वम् आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यस्य रोगावस्था सङ्कीर्णा इति वत्तिकानप्रशासनेन निगदितम्। ८८ वयस्कस्य अस्य श्वासकोशे अणुसंक्रमः  दृष्टः इत्यतः तदनुसृत्य परिचर्या आरब्धा।

Monday, February 17, 2025

 मणिपुरे राष्ट्रपतिप्रशासनं- कुक्कि - मेय्ती विभागौ विमतौ।  

       इम्फालः> मणिपुरराज्ये राष्ट्रपतिप्रशासनस्यानन्तरं कुक्किविभागः  मेय्तीविभागश्च विरुद्धपक्षे वर्तेते। राष्ट्रपतिप्रशासनं मणिपुरे शान्तिमानयिष्यतीति दश कुक्की सदस्याः अवोचन्। राज्ये शान्तये नीतये च समग्रां रूपरेखां सज्जीकर्तुं केन्द्रसर्वकारः यतिष्यते इति ते प्रत्याशां प्रकटितवन्तः। 

  किन्तु राज्यस्य राष्ट्रपतिप्रशासनं अपाकर्तव्यं, मुख्यमन्त्रिणः चयनं झटित्येव करणीयमिति मेय्तीविभागेन प्रस्तुतम्।

 दिल्ली रेल् याननिस्थाने तीव्रजनसम्मर्देन १८ मरणानि; अनेके आहताः। 

नवदिल्ली> नवदिल्ली रेल् याननिस्थाने महाकुम्भमेलार्थं  प्रयागराजं गन्तुमागतानां सहस्रशः जनानां सम्मर्देन १८ जनाः मृत्युमुपगताः। शनिवासरे रात्रौ दशवादने आसीदियं दुर्घटना। 

  दुर्घटनां नीयमानानि द्वित्राणि कारणानि सूच्यन्ते। 

१. प्रयागराजं गम्यमानयोः द्वयोः रेल् यानयोः विलम्बः। 

२. प्रयागराजं प्रति निर्दिष्टं सविशेषरेल् यानमधिकृत्य अन्तिमसमये दत्तस्य विलम्बरस्य अव्यक्तता।

३. अनियन्त्रितः यात्रिकसम्मर्दः। प्रयागराजं प्रति होरायां १५०० चिटिकाः रेल्वे संस्थया वितरीताः। 

  मृतेषु १८ यात्रिकेषु ११ महिलाः ५ बालकाश्च अन्तर्भवन्ति। मृतानामाश्रितेभ्यः दशलक्षं रूप्यकाणि रेल्वे संस्थया दास्यन्ते।

Sunday, February 16, 2025

 बी एस् एन् एल् लाभं सम्प्राप्तम्। 

तृतीयपादे २६२ कोटि लाभः। ८२ कोटि केरलतः। 

     पत्तनंतिट्टा> 'भारतीय सञ्चार निगम लिमिटड्' [बी एस् एन् एल्] इति केन्द्रसर्वकाराधीना सन्देशविनिमयसंस्था १७ संवत्सरेभ्यः परं लाभे समागता। वर्तमानीनार्थिकवर्षस्य तृतीये पादे - ओक्टोबर्,नवम्बर्, दिसम्बर मासेषु - आयव्ययगणनायां २६२ कोटि रूप्यकाणां लाभः सम्प्राप्तः। तस्मिन् लाभे ८० कोटिरूप्यकाणि केरलक्षेत्रादेव। अतीते आर्थिकवर्षे अपि केरलतः लाभः सम्पन्नः।

 राष्ट्रे तापः वर्धते - गतदिनस्य तापमाने अग्रे पालक्काट्।


पालक्काट्> देशे ग्रीष्मकालः आरब्धः। दक्षिभारते तापमानं वर्धमानम् अस्ति। केन्द्र पर्यावरणविभागस्य निरीक्षणानुसारं शनिवासरे परमं तापमानं केरलस्य पालक्काट् जनपदे अङ्कितम्। ३८ डिग्री सेल्ष्यस् आसीत् ह्यस्तनं परमं दिनतापमानम्।

 ११९ अनधिकृताधिनिविष्टाः यू एस् विमाने भारतं प्रतिनिवर्तिताः। 

चण्डीगढः> यू एस् राष्ट्रे अनधिकृतेन अधिनिवासं क्रियमाणाः ११९ भारतीयाः अमेरिकायाः सेनाविमाने  अमृतसरमानीताः। अधिनिविष्टान् ऊढ्यमाणं 'सि १७ ग्लोब् मास्टर' इति सेनाविमानं ह्यः रात्रौ ११ वादने अमृतसरं विमाननिलयमवतारितम्। 

  नियमविरुद्धाधिनिवेशितानाम् निष्कासनपरियोजना ट्रम्पेण आरब्धानन्तरं भारतं प्राप्तं द्वितीयं विमानं भवत्येतत्। ११९ अधिनिविष्टेषु ६७ पञ्चाबीयाः, ३३ हरियानीयाः, ०८ गुजरातीयाश्च अन्तर्भवन्ति। अन्ये च यू पि, गोवा, राजस्थानं, हिमाचलप्रदेशः, जम्मु काश्मीरमित्येभ्य राज्येभ्यः सन्ति। १८ - ३० वयस्काः भवन्ति भूरिशः।

 वयनाटाय ऋणरूपेण ५२९. ५ कोटि रूप्यकाणि। 

अनन्तपुरी> केरले वयनाटस्थे भूस्खलनदुरन्ताधीनस्य मुण्टक्कै चूरल्मला मण्डलस्य पुनर्निर्माणाय केन्द्रसर्वकारेण ५२९. ५ कोटि रूप्यकाणां वृद्धिरहितम् ऋणम् अनुमोदितम्। १६ अभियोजनानां कृते 'कापेक्स्' [Capital Expenditure] ऋणरूपेण लभ्यमानः धनराशिः ५० संवत्सरैः प्रत्यर्पितव्यः। धनराशेः विनियोगपत्रं मार्च् ३१ तमदिनाङ्कात् पूर्वं समर्पणीयमिति केरलसर्वकारं प्रति प्रेषिते लेखे केन्द्रेण निर्दिष्टमस्ति। 

  किन्तु निर्देशोSयम् आशङ्काजनक इति राज्यसर्वकारेण सूचितं यतः ५२९. ५ कोटिरूप्यकाणां विनियोगाय मासैकमेवावशिष्यते। एवं च १६ अभियोजनेभ्यः ५३५ कोटिरूप्यकाणाम् अनुदानमासीत् [Grant] राज्यसर्वकारेणार्थितम्। तस्य स्थाने ऋणमेवानुमोदितमित्यपि सर्वकारं सन्दिग्धावस्थां प्रापयति।

Saturday, February 15, 2025

 दिल्ल्यां नूतनप्रशासनम् आगामिसप्ताहे। 

नवदिल्ली> चतुर्थांशशतकात्परम् अधिकारं प्राप्तवतः भाजपादलस्य नूतनप्रशासनं आगामिनि सप्ताहे पदं स्वीकरिष्यतीति दलनेतृभिरुक्तम्। भा ज पायाः विधानसभासदस्यानामुपवेशनं  रविवासरे सोमवासरे वा भवेत्। मुख्यमन्त्रिणः चयनानन्तरं विंशः दिनाङ्काभ्यन्तरे शपथवाचनकार्यक्रमः भविष्यतीति दलस्य राष्ट्रियसचिवः तथा च नियुक्तसदस्यः मञ्जीन्दर सिंह मिर्सा अवोचत्। 

  मन्त्रिसभायाः अन्तिमनिर्णयाय विदेशपर्यटनाय गतवतः प्रधानमन्त्रिणः प्रत्यागमनं प्रतीक्षते दलनेतृभिः।

 २०३६ ओलिम्पिक्स् महामहाय भारतं सज्जमिति अमित शाहः। 

हल्द्वानी> २०३६ तमे वर्षे आयोज्यमाने ओलिम्पिक्स् कायिकोत्सवे आतिथेयराष्ट्रं भवितुं भारतं सज्जमिति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्। राष्ट्रस्यायं निर्देशः अन्ताराष्ट्रिय ओलिम्पिक्स् समित्याः पुरतः समर्पित इत्यपि तेन सूचितम्। उत्तराखण्डे हल्द्वाने राष्ट्रियकायिकक्रीडामहोत्सवस्य समाप्तिसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।

 राष्ट्रिय कायिकक्रीडा समाप्ता।

आगामिनी क्रीडा मेघालये।

समापनकार्यक्रमे भागं गृहीतवन्तः विशिष्टातिथयः। 

हल्द्वानी> १७दिनात्मिका  ३८ तमा राष्ट्रिय कायिकक्रीडा उत्तराखण्डे समाप्ता। २५,००० प्रोक्षकान् साक्षीकृत्य क्रीडायाः समापनकार्यक्रमः राष्ट्रगृहमन्त्रिणा अमित शाहेन उद्घाटितः। भारतीय ओलिम्पिक्स् असोसियेषन् इत्यस्य अध्यक्षा पि टि उषा राष्ट्रियक्रीडायाः समाप्तिप्रख्यापनं निरवहत्। 

  आगामिनी राष्ट्रियक्रीडा २०२७ तमे वर्षे  मेघालये विधास्यति। कायिकक्रीडायाः ध्वजं पि टि उषायाः स्वीकृत्य अमित शाहः मेघालयस्य मुख्यमन्त्रिणे कोणड्राड् सांग्मा इत्यस्मै उपसंक्रमितवान्। 

  ६८ सुवर्णपतकानि अभिव्याप्य सर्वीसस् दलं क्रीडावीरपदं सम्प्राप। महाराष्ट्रं हरियानं च यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप।  समाप्तिकार्यक्रमे केन्द्रमन्त्रिणौ  मनोसुख माण्डव्यः, अजय टांप्टः, उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी, मेरी कोम्, गगन् नारङ्गः इत्यादयः कायिकक्षेत्रप्रमुखाश्च भागं गृहीतवन्तः।

 मङ्गल्यवेदिकायाम् 'अतिथिरूपेण' चित्रशार्दूलः। 

वधूवरौ कार् याने प्राणरक्षार्थं होराः यावत् लग्नाः। 

मङगल्यवेदिकां प्राप्तः चित्रशार्दूलः वनपालकैः बद्धः इत्यवस्थायाम्। 

लख्नौ> लख्नौस्थे बुद्देश्वरप्रदेशस्थं मङ्गल्यगृहम् अनामन्त्रितः कश्चन अतिथिः आगतः। अतिथिं दृष्ट्वा जनाः विवाहवेदिकातः परिभ्रान्ताः सन्तः धावितवन्तः।  प्राणरक्षार्थं कार् यानमाश्रितवन्तौ वधूवरौ तु ५ होराः यावत् तत्र लग्नाश्च। कश्चन चित्रशार्दूल आसीत्स अतिथिः। 

  बुधवासरे रात्रौ आसीदियं घटना। नगरस्थे 'एम् एम् लाण्' नामके विवाहमण्डपे अक्षय श्रीवास्तवा ज्योतिकुमारी इत्यनयोः वैवाहिककार्यक्रमे आसीत् शादूलस्यापि आगमनम्।  स्थानं प्राप्तवन्तः आरक्षकाः वनविभागाधिकारिणश्च कठिनप्रयत्नं कृत्वा प्रत्युषसि द्विवादने चित्रशार्दूलं बद्धमकुर्वन्।

Friday, February 14, 2025

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं समाप्तम्।

नवदिल्ली> जनुवरि ३१ तमे दिनाङ्के आरब्धं  संसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं गुरुवासरे समाप्तम्। नूतनमायकरविधेयकं, वखफ विधेयकं परिशोध्यमानस्य जे पि सि इति समित्या समर्पितमावेदनमित्येतौ अन्तिमदिने परिगणितौ विषयौ स्तः। 

  आगामिचरणं मार्च् १० तमदिनाङ्के आरभ्य एप्रिल् चतुर्थदिनाङ्के समाप्स्यते।

 नरेन्द्रमोदी यू एसे।

इलोण् मस्केन सह मिलितवान्। 

इलोण् मस्कः नरेन्द्रमोदिनं स्वीकरोति। 

वाषिङ्टणः> यू एस् सन्दर्शनार्थं वाषिङ्टणं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'स्पेय्स् एक्स्' इत्यस्य अधिपेन इलोण् मस्केन सह मिलित्वा चर्चां कृतवान्। ट्रम्पप्रशासनस्य गुप्तान्वेषणविभागस्य निदेशकपदं प्राप्तवती भारतवंशजा तुलसी गबार्ड् इत्येतां च अमिलत्। 

  वाषिङ्टणे ब्लयर् हौस् इत्यत्र एव मोदिनः अधिवासः। यू एस् राष्ट्रपतेः अतिथीनां कृते वासस्थानं भवत्येतत्। अनेके भारतवंशजाः प्रधानमन्त्रिणं स्वीकर्तुं ब्लयर् हौस् प्राप्तवन्तः।

 अद्य पुल्वामा दिनम्।

नवदिल्ली> राष्ट्राय स्वप्राणान् बलिदानं कृतवतां धीरभटानामनुस्मरणदिवसः अद्य भवति। २०१९ फेब्रुवरि १४ तमे दिनाङ्के जम्मु काश्मीरस्थायां पुल्वामायां सि आर् पि एफ् भटानां वाहनं प्रति जय्षे मुहम्मदभीकरैः कृतेन आक्रमणेन ४० भटाः वीरमृत्युं प्रापुः। अस्य १२ तमे दिने भारतेन नियन्त्रणरेखामतिक्रम्य पाकिस्थाने बालक्कोट्टस्थानि भीकरपरिशीलनकेन्द्राणि अग्निशस्त्रैः शिथिलीकृत्य प्रत्युत्तरं कृतम्।

 मणिपुरे राष्ट्रपतिप्रशासनं विधत्तम्। 

नवदिल्ली> नूतनं मुख्यमन्त्रिणं निर्णेतुं राज्यस्थस्य भा ज पा नेतृत्वस्य  नाशक्यत इत्यतः मणिपुरराज्ये राष्ट्रपतिप्रशासनं विधातुं निर्णयः कृतः। संविधानानुसारं षण्मासाभ्यन्तरे  राज्ये विधानसभासम्मेलनमाकारितव्यम्। बुधवासरे तत्कालपरिधिः समाप्त आसीत्। तादृशं संविधानप्रतिसन्धिमपाकर्तुमेव राष्ट्रपतिप्रशासनं विधत्तम्।

 प्राणभीषया दलैलामस्य सुरक्षा 'z' विभागेषु परिवर्तिता।

  टिबट् राष्ट्रस्य बौद्धधर्मानुयायिनाम् अध्यात्मिकनेतुः सुरक्षा भारतसर्वकारेण 'इसड्' विभागसुरक्षारूपेण परिवर्तिता। दलैलामस्य प्राणभीषा अस्ति इति दक्षतागणस्प प्रतिवेदनस्य आधारेणैव अयं प्रक्रमः। गृहे, बहिर्गमनसन्दर्भे च ३३ सुरक्षाकर्मकराः अधिकतया संघे भवितव्यः इत्येव निर्देशः। चीनात् भीतः अयं १९८९ तमात् वर्षात् आरभ्य भारते अभयं प्राप्रवान् आसीत्।

Thursday, February 13, 2025

 भारत-फ्रान्ससम्बन्धं सुदृढं करिष्यति।

पारीसः> भारत-फ्रान्सयोर्मध्ये वर्तमानं सुहृद्बन्धं सुदृढं कर्तुं उभावपि राष्ट्रनेतारौ निर्णीतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फ्रान्सस्य राष्ट्रपतिना इम्मानुवल् मक्रोणेन सह पारीसे कृते मेलने आसीदयं निर्णयः। 

  राष्ट्ररक्षा, व्यापारः, निक्षेपः, ऊर्जः इत्यादिषु मण्डलेषु उभयराष्ट्रयोः मिथः संबन्धं दृढीकर्तुं निर्णयः कृतः।

 तृतीयमेकदिनमपि भारतेन विजितं; सम्पूर्णपरम्पराप्राप्तिः। 

शतकं सम्प्राप्तवान् शुभमान् गिलः। 

अहम्मदाबादः> इङ्लण्टं विरुध्य तृतीया अन्तिमा च एकदिनस्पर्धा अपि भारतेन विजिता। अनेन क्रीडात्रयात्मिका परम्परा सम्पूर्णतया [३ - ०] भारतेन सम्प्राप्ता।  

  तृतीयस्पर्धायां गतदिने १४२ धावनाङ्कैः भारतं इङ्लण्टमभञ्जत। उत्क्षेपनिर्णयं विनष्ट्य ताडनकं स्वीकृतवान् भारतीयदलः शुभमान् गिल्लस्य शतकस्य [११२] बले ३५६ धावनाङ्कान् सम्प्राप। इङ्लण्टस्तु ३४. २ क्षेपणचक्रैः २१४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीतवन्तः। विराट कोली [५२], श्रेयस् अय्यरः, के एल् राहुलः इत्येते भारताय श्रेष्ठतया क्रीडितवन्तः।

 सुनिता विल्मोरश्च मार्चमासे प्रत्यागमिष्यतः।


वाषिङ्टणः> अष्टदिनात्मकदौत्याय भूमेः प्रस्थाय अष्टमासान् यावत् बहिराकाशनिलयमधिवसन्तौ नासाशास्त्रज्ञौ सुनिता विल्यंसः बुच् विल्मोरश्च मार्चमासे प्रतिनिवर्तिष्येते इति नासया निगदितम्। स्पेय्स् एक्स् इत्यस्य 'क्रू १०' इत्यस्मिन् परियोजने उभावपि प्रत्यागमिष्यतः। मार्च् १२तमे दिनाङ्के 'क्रू १०' बहिराकाशनिलयं प्रस्थास्यति।

 पारीसतः मोदी अमेरिकां प्राप्तवान्।

वाषिङ्टणे नरेन्द्रमोदी विमानादवतरति। 

वाषिङ्टणः> फ्रञ्चराष्ट्रपर्यटनं समाप्य भारतप्रधानमन्त्री नरेन्द्रमोदी ह्यः यु एस् प्राप्तवान्। वाषिङ्टणस्थे सैनिकविमाननिलये मोदिने हृद्यं स्वीकरणं दत्तम्।  तत्र सः राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलिष्यति। पारीसे कृतकबुद्धिमत्तामाधारीकृत्य  उन्नततलमेलनं नाम कार्यक्रमे  यू एस् उपराष्ट्रपतिना सह चर्चां कृतवानासीत्।

Wednesday, February 12, 2025

 पारीसे नरेन्द्रमोदिने सहृदयं स्वीकरणम्। 

पारीसे नरेन्द्रमोदिनं मक्रोणः स्वीकरोति। 

पारीस्> कृतकबुद्धि उच्चशिखरसम्मेलने फ्रञ्च राष्ट्रपतिना सह आध्यक्षं वोढुं पारीसं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रञ्च राष्ट्रपतिः इम्मानुवल् मक्रोणः हृदयङ्गमं स्वीकरणं सम्मानितवान्। विमाननिलयं प्राप्तं मोदिनं मक्रोणः आलिंगनेन स्वीकृतवान्। "मम उत्तममित्राय पुनरपि सुस्वागतम्" इति स्नेहवचसा स्वराष्ट्रं प्रति सः आमन्त्रयत्।

 जम्मु मध्ये स्फोटनं - द्वौ सैनिकौ हतौ। 

जम्मु> जम्मु प्रदेशे भट्टल् इति स्थाने नियन्त्रणरेखासमीपे दुरापन्ने ऐ ई डि स्फोटने एकं केप्टन् पदीयमभिव्याप्य द्वौ सैनिकौ वीरमृत्युं प्रापतुः। एकः भटः आहतः। अखनूर् खण्डे भीकरैः स्थापितम् ऐ ई डि नामकस्फोटकमेव विस्फोटितम्। 

  दिनचतुष्टयाभ्यन्तरे सीमामुल्लंघ्य भीकरैः कृतं तृतीयमाक्रमणं भवत्येतत्।

 कृत्रिमबुद्धिमत्ता- उन्नततलमेलनम् ।

नरेन्द्रमोदिना साकं सुन्दर पिच्चै

    कृत्रिमबुद्धिमत्ता (Artificial intelligence) विषये आयोजिते उन्नततलमेलने सुन्दरपिचै महोदयेन साकं प्रधानमन्त्री नरेन्द्रमोदी सौहार्दसंवादं कृतवान्। भारतस्य अङ्कीयमण्डले कृत्रिमबुद्धिमत्ता ( AI ) इति विषये द्वावपि चर्चां कृतवन्तौ। भारतस्य अङ्कीय परिवर्तनेषु सहभागित्वं वोढुं सुन्दर पिच्चै स्वस्य तुष्टिं प्रकाशितवान्। स्वस्य एक्स् इति समाजमाध्यमद्वारा वार्तामिमां प्रकाशितवान् च।

Tuesday, February 11, 2025

 महाकुम्भमेला - बहुदूरं गमानागमनक्लेशः। 

प्रयागराजः> लक्षशः तीर्थाटकेषु सम्प्राप्तेषु प्रयागराजं प्राप्यमाणाः मार्गाः महान्तं गमनागमनक्लेशमनुभवन्ति। विविधमार्गेषु आहत्य ३०० कि मी दूरं यावत् यात्राक्लेशमनुभवन्तीति सूच्यते। वाराणसी, लख्नौ, काण्पुरम् इत्येभ्यः स्थानेभ्यः २५ कि मी दूरपर्यन्तं यात्रार्थं महान् क्लेशः अनुभूयते। 

  दुर्घटनामपाकर्तुमुद्दिश्य प्रयागराजे संगं रेल् निस्थानं १४ तम दिनाङ्कं यावत् पिहितम्। निस्थाने एकां दिशामेव यात्रासुविधा वर्तते।

 मावोवाद्याखेटने अस्मिन् वर्षे ६५ जनाः हताः। 

११ सैनिकानां वीरमृत्युः। 

बीजापुरं> छत्तीसगढे बीजापुरे अस्य वर्षस्य मासद्वयाभ्यन्तरे ६५ मावोवादिनः सुरक्षासेनया सह संग्रामे मृत्युमुपगताः। ११ सैनिकाः अपि वीरमृत्युं प्राप्तवन्तः। ८१ मावोवादिनः समर्पितायुधाः सन्तः आत्मसमर्पणं कृतवन्तः। 

  २०२४ तमे वर्षे छत्तीसगढे एव २१९  मावोवादिनः प्रतिद्वन्द्वे हताः। मार्च् ३१ तमदिनाङ्काभ्यन्तरे राष्ट्रं मावोवादिमुक्तं करिष्यतीति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्।

 भारत - इङ्लाण्ट् एकदिनस्पर्धापरम्परा भारतेन प्राप्ता।

द्वितीये एकदिने रोहितशर्मणः शतकेन भारतस्य चतुर्द्वारकाणां विजयः।

शतकं प्राप्तवतः रोहितशर्मणः 'नटराजस्थितुः'।

कटक्> उज्वलशतकेन रोहित शर्मणः नायकत्वे इङ्लण्टं विरुध्य द्वितीये एकदिने भारतस्य चतुर्द्वारकाणां सम्पूर्णविजयः। अनेन क्रीडात्रयात्मिका परम्परा भारतेन २ - ० इति क्रमेण स्वायत्तीकृता। टि - २० परम्परा अपि भारतेन स्वायत्तीकृता आसीत् [४ - १]

  रोहितः ९० कन्दुकैः ११९ धावनाङ्कान् सम्प्राप्तवान्। श्रेष्ठक्रीडकोSपि स एव। अङ्कप्राप्तिः - इङ्लण्ट् ४९. ५ क्षेपणचक्रेषु ३०४ धावनाङ्काः। भारतं ४४. ३ क्षेपणचक्रेषु ६ द्वारकाणां विनष्टे ३०८ धावनाङ्काः।

Monday, February 10, 2025

 गासा युद्धविरामसन्धिः 

मुख्यमध्यमार्गात् इस्रयेलः अपासरत्। 


गासासिटी> युद्धविरामसन्धेः व्यवस्थानुसारं गासानगरस्य मुख्यमध्यमार्गात् [Corridor] इस्रयेललेना अपासरत्। उत्तरगासायाः दक्षिणगासायाश्च मध्ये वर्तमानात् ६ किलोमीटर् दैर्घ्ययुक्तात्  नेत्सारिममध्यमार्गादेव सैन्यस्य प्रतिनिवर्तनम्। 

  इस्रयेलसेनायाः अनेनापसरणेन उत्तरगासां प्रति पालस्तीनियानां यात्रानियन्त्रणस्यापि पूर्णविरामः भविष्यति।

 छत्तीसगढ़े मावोवाद्याखेटनं - ३१ मावोवादिनः व्यापादिताः। 

द्वौ सैनिकौ वीरमृत्युं प्रापतुः।

बिजापुरं> छत्तीसगढ़े बिजापुरे सुरक्षासेना-मावोवादिनोः मिथः विधत्ते संग्रामे ३१ मावोवादिनः हताः। तेषु ११ महिलाः अन्तर्भवन्ति। महानायुधसञ्चयः सङ्गृहीतश्च। संघट्टने द्वयोः सुरक्षाभटयोः वीरमृत्युरभवत्। 

  रविवासरस्य प्रातः इन्द्रावती राष्ट्रियोन्द्यानस्य वनान्तर्भागे सुरक्षासेनायाः मार्गणावसरे आसीत् प्रतिद्वन्द्वः। अतीते मासचतुष्टये जातः महत्तमः प्रतिद्वन्द्वः अस्ति ह्यः जातः इति सर्वकाराधिकारिभिरुक्तम्।

 भारते अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम्। युद्धाय न।

   बेङ्गलूरु> अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम् अभवन्। किन्तु परस्पराक्रमणाय न। कर्णाटकेषु येलहङ्का विमानपत्तने समारब्धे एयरो इन्ट्या प्रतिरोधप्रदर्शनार्थमेव अमेरिक्कायाः रष्यायाः च युद्धविमानानि आगतानि। अमेरिक्कायाः एफ् ३५ नाम अत्याधुनिक रहस्यविमानं तथा रष्यायाः एस् यु ५७ नाम रहस्ययोद्धा च भवति अस्मिन् वर्षे एय्रो इन्ट्यायाः श्रद्धाबिन्दुः।

 मणिप्पुरमुख्यमन्त्री त्यागपत्रं समार्पयत्। विधानसभा शीतीकृता; राष्ट्रपतिप्रशासनं झटिति न स्यात्। 

बीरेनसिंहः। 

इम्फालः> वंशीयसङ्घर्षेण क्लेशमनुभूयमानस्य मणिप्पुरराज्यस्य मुख्यमन्त्री बीरेन् सिंहः त्यागपत्रं समार्पयत्। विधानसभायां विपक्षेण कोण्ग्रसेन अविश्वासप्रकटनपत्रं अवतारयिष्येदिति सूचनायामागतायाम् आसीत् भाजपा मन्त्रिसभायाः स्थानत्यागः। 

  रविवासरे सायं बीरेनसिंहः  मन्त्रिभिस्साकं राजभवनं प्राप्य राज्यपालाय अजयकुमार भल्लाय त्यागपत्रं समर्पितवान्। राज्ये  झटित्येव राष्ट्रपतिप्रशासनं न प्रख्यापयिष्यतीति सूच्यते। 

  मणिप्पुरे वंशीययुद्धं परिहर्तुं मुख्यमन्त्री बीरेनसिंहः पराजितवानिति आक्षेपः राज्ये बहिश्च उन्नीत आसीत्। स्वराजनैतिकदलाभ्यन्तरे अपि सः विमर्शमभिमुखीक्रियमाणः आसीत्।

Sunday, February 9, 2025

 केरलेषु रथ्याशुनकानां संख्या वर्धिता। शुनकदंशनेन २६ जनाः मृताः।

   गोश्रीपुरम् >कोच्ची> केरलराज्ये रथ्यायां वर्तमानानां शुनकानां संख्या वर्धमाना वर्तते। विगते संवत्सरे २६ जनाः शुनकानां दंशनेन हताः। लक्षाधिकाः दंशनानन्तर-चिकित्सायाः कृते सर्वकारीय-चिकित्सालयेषु संप्राप्ताः आसन्। निजीयचिकिसालयेषु अपि लक्षाधिकाः एवं संप्राप्ताः आसन्। विगते दिने आलप्पुष़ जनपदे कश्चन लघुबालकः शुनकस्य आक्रमणेन शुनकविषं प्रबाध्य अतिगुरुतरायाम् अवस्थायाम् आतुरालयं प्रवेशितः अस्ति। एकमासात् पूर्वं सः बालकः विद्यालयात् प्रत्यागतवान् आसीत्। द्विचक्रिकायां प्रत्यागतः सः मार्गे शुनकस्य आक्रमणेन अध:पतितः। किन्तु तस्य शरीरे दंशनस्य वा नखचित्रं वा न आसीत्। अतः प्रतिरोधवाक्सिनं न स्वीकृतं च। किन्तु एकमासानन्तरं ज्वरबाधया आतुरालयं प्रविष्टः सः शुनकविषेण पीडितः इति भिषग्वरेण प्रत्यभिज्ञातः। इदानीं बालकः तीव्रपरिचर्याविभागे प्रवेशिताः। तस्य स्वास्थ्यस्थितिः इदानीं गुरुतरा वर्तते। शुनकानां संख्यां न्यूनीकर्तुं सर्वकारेण श्रद्धा देया इति जनाः वाञ्छन्ति।

 राष्ट्रियकायिकक्रीडा - अनिमेषः अतिशीघ्रधावकः, सुदेष्णा धाविका। 

पतकश्रेण्यां सर्वीसस् प्रथमस्थाने।

द्वितीये तृतीये यथाक्रमं कर्णाटकं महाराष्ट्रं च। 

दह्रादूण्> उत्तराखण्डे प्रचाल्यमानायां राष्ट्रियक्रीडायाः अंशतया ह्यः दह्रादूणस्थे 'गंगा अत्लटिक्स्' क्रीडाङकणे १० प्रकरणेषु स्पर्धाः परिसमाप्ताः। पुरुषविभागस्य १०० मीटर् धावनस्पर्धायां ओडीशायाः अनिमेषः सुवर्णपतकं सम्प्राप्य अतिशीघ्रः धावकः अभवत्। १०. २८ सेकन्ड् अस्ति तेनाङ्कितः समयः। महाराष्ट्रस्य सुदेष्णा शिवाङ्करः ११. ७६ सेकन्ड् समयेन १०० मीटर् धावित्वा अतिशीघ्रा धाविका जाता। 

  महिलानां यष्ट्युत्कूर्दने  [Pole wat] सुवर्णरजतपतकद्वयमपि तमिलनाटेन सम्प्राप्तम्। कांस्यं  तु केरलस्य मरिया जय्सण् प्राप्तवती। दीर्घोत्प्लुते उत्तरप्रदेशस्य षानवास् खानः सुवर्णं, तमिलनाटस्य वि श्रीरामः रजतं, केरलस्य अनुरागः कांस्यं चालभत। 

  पतकश्रेण्यां सर्वीसस् संघः ४२ सुवर्णानि प्राप्य प्रथमस्थाने वर्तते। द्वितीयस्थाने कर्णाटकं विद्यते। तृतीये तु महाराष्ट्रमस्ति।

 भारत-इङ्लाण्ट द्वितीया एकदिनस्पर्धा अद्य। 

कटक्> भारत-इङ्लाण्टयोः द्वितीयः एकदिनप्रतिद्वन्द्वः रविवासरे अपराह्ने १. ३० वादनतः बरामति क्रीडाङ्कणे सम्पत्स्यते। टि - २० परम्परा भारतेन सम्प्राप्ता आसीत्। 

 स्पर्धात्रयात्मिकायाम् एकदिनपरम्परायां प्रथमा स्पर्धा भारतेन चतुर्भिः द्वारकैः विजिता अभवत्। अद्यतनस्पर्था अपि विजयते चेत् परम्परा स्वायत्तीकर्तुं शक्यते।

 अमेरिकायां अधिनिवेशिताः १११ ब्रसीलियाः यात्राविमाने प्रतिनिवर्तिताः।

ब्रसीलिया>  यू एस् तः अनधिकृताधिनिवेशितान्  १११ ब्रसीलियान् ऊढ्वा अमेरिकायाः द्वितीयं विमानं लूसियानाविमाननिलयात् ब्रसीलस्थं फोर्टलेसानिलयं सम्प्राप्तम्। ट्रम्पस्य अधिकारप्राप्त्यनन्तरं प्रथमनिष्कासने ८८ ब्रसीलियाः निगडबन्धिताः आसन्। तद्विषये ब्रसीलस्य शक्तः प्रतिषेधोSभवत्। तदनन्तरमेव मनुष्यत्वसहितं परिगणनामालम्ब्य द्वितीयः संघः प्रतिनिवर्तितः।

 विधानसभा उपनिर्वाचनम्-

मिल्कीपुरे भा ज पा ; ईरोडे डि एं के च व्यजयत। 

नवदिल्ली> पञ्चमे  दिनाङ्के द्वयोः मण्डलयोः सम्पन्नस्य विधानसभायाः उपनिर्वाचनस्य फलमागतम्। 

  उत्तरप्रदेशे मिल्कीपुरमण्डले भा ज पा स्थानाशी चन्द्रभानु पास्वानः विजितवान्। प्रतिद्वन्दी समाजवादी पार्टी इत्यस्य अजित् प्रसादं ६१,७१० मतानां भूरिसंख्यायां पराजितवान्। तथा च तमिलनाटे ईरोड् मण्डले डि एं के स्थानाशी वि सि चन्द्रकुमारः मुख्यप्रतिद्वन्दिनम् एम् के सीतालक्ष्मीं ९०,६२९ मतानां व्यत्यये विजयीभूतः। चन्द्रकुमारादृते सर्वेषां समर्पितधनं विनष्टम्।

Saturday, February 8, 2025

 इन्द्रप्रस्थं पद्मविभूषणम्। 

प्रशासनप्राप्तिः २७ संवत्सरेभ्यः पश्चात्।

केज्रिवालः पराजितः। कोण्ग्रसः 'सम्पूज्यः'।

नवदिल्ली> राजधान्यां २६ संवत्सराणामनन्तरं भाजपादलाय अधिकारप्राप्तिः। अद्य सम्पन्नायां मतगणनायां ७० विधानसभास्थानेषु ४८ स्थानानि सम्प्राप्य भा ज पा दलः दिल्लीराज्यस्य शासनाधिकारं सम्प्राप। दशवर्षाणि यावत् अधिकारपदं गृहीतवान् अरविन्द काज्रिवालेन नीयमानः  ए ए पी दलः २२ स्थानेषु संकुचितः। स्वबलं प्रदर्शयितुं कठिनप्रयत्नं कृतवान् कोण्ग्रसदलः अनुस्यूततया तृतीयवारमपि किमपि स्थानं न लेभे।

 राष्ट्रियक्रीडायां पादकन्दुकस्पर्धायां केरलाय सुवर्णपतकम्। 

सुवर्णप्राप्तिः २७ संवत्सरेभ्यः पश्चात्। 

कायिकस्पर्धाः अद्य आरभ्यन्ते। 

हल्द्वानी> राष्ट्रियक्रीडायाः पादकन्दुकस्पर्धापरम्परायाः अन्तिमे प्रतिद्वन्द्वे आतिथेयराज्यम् उत्तराखण्डं   प्रत्युत्तररहितं एकलक्ष्यकन्दुकेन पराजित्य केरलं सुवर्णपतकं प्राप्नोत्। २७ संवत्सराणां अवकाशानन्तरमेव केरलस्य सुवर्णलब्धिः। 

  क्रीडायाः ५३ तमे निमिषे एस् गोकुलः केरलाय विजयलक्ष्यं सम्प्राप्तवान्। इदानीं केरलं १० सुवर्णं, ९ रजतं, ७ कांस्यं चोपलभ्य २६ अङ्कैः अष्टमस्थाने वर्तते।

 केरलस्य आयव्ययपत्रं अवतारितम्। 

राज्यस्य आधारसुविधाविकासः परमलक्ष्यम्।

शुल्कभारः वर्धते; सर्वकारसेवकेभ्यः समाश्वासः। आर्थिकसङ्कटः  परिहृतः इति वित्तमन्त्री।

अनन्तपुरी> केरले  द्वितीय वामदलपक्षसर्वकारस्य अन्तिमं सम्पूर्णम् आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन विधानसभायामवतारितम्। जनप्रियतामपेक्ष्य आयमनुसृत्य व्ययं कर्तुं, कतिपयक्षेत्रेषु शुल्कमानं वर्धयित्वा आधारसुविधाविकासं विधातुं चोद्दिश्यमानम् आयव्ययपत्रमेव धनकार्यमन्त्रिणा अवतारितम्। राज्यस्य उन्नयनस्य प्रारम्भः इति बालगोपालेन अभिमानितम्।  सम्मिश्रप्रतिकरणमेव विविधमण्डलेभ्यः आगतम्। 

  भूशुल्कः ५०% संवर्धितः। 'इलक्ट्रिक्' वाहनानां शुल्कोSपि वर्धितः। सर्वकारसेवकेभ्यः सेवानिवृत्तेभ्यश्च दातव्यं क्षेमराशेः देयावशिष्टं [D A Arrear] प्रत्यर्पयितुं राशिं प्रकल्पितमस्ति।

 भारतीयप्राशासनिकवित्तकोशेन 'रिप्पो'मानं न्यूनीकृतम्।

मुम्बई>  पञ्चवर्षेभ्यः पश्चात् प्रथमतः भारतीयप्राशासनिकवित्तकोशेन [ Reserve Bank of India] वित्तकोशेभ्यः दीयमानानाम् ऋणानां वृद्धिमानं [Rippo rate] न्यूनीकृतम्। शुक्रवासरे समाप्ते आर् बि ऐ संस्थायाः मुद्रानयोपवेशने आसीत् अयं निर्णयः। रिपोमानं ६. ५०% इत्यस्मात् ६. २५% इति न्यूनीकृतम्। 

 निर्णयोSयं ये वित्तकोशेभ्यः ऋणं स्वीकुर्वन्ति तेभ्यः सहायको भविष्यति। भवननिर्माणक्षेत्रे उपभोगवर्धनं प्रतीक्षते।

 काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः।

विधुशेखरभारती स्नामिनः कुम्भाभिषेकं कुर्वन्ति। 

 

वाराणसी> जगद्गुरुणा श्रीशङ्कराचार्येण प्रतिष्ठा कृता इति विश्वास्यमाने काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः। श्रृङ्गेरी मठाधिपतेः शङ्कराचार्यस्य  भारतीतीर्थस्य सान्निध्ये अनन्तरगामी विधुशेखरभारती प्रतिष्ठा महाकुम्भाभिषेकं निरवहत्। 

  पञ्चशतं वेदपण्डितानां भागभागित्वे सहस्रचण्डिमहायज्ञः, कोटिकुङ्कुमार्चना, महारुद्रयज्ञः इत्यादयः कार्यक्रमाः अपि सम्पन्नाः। कुम्भाभिषेकोत्सवः रविवासरे समाप्स्यते।

Friday, February 7, 2025

 गासायाम् अधिवासनिराकरणं - ट्रम्पं विरुध्य आगोलप्रतिषेधः। 

नाशितस्य गासानगरवीथेः दृश्यम्। 

वाषिङ्टणः> गासायां पालस्तीनीयान् अपसृत्य गासाप्रदेशं पुनर्निर्मास्यतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रख्यापनं विरुध्य अन्ताराष्ट्रस्तरे प्रतिषेधः शक्तोSभवत्। ईजिप्त्, जोर्दानमित्यादीनि राष्ट्राणि, अमेरिकायाः इतराणि सख्यराष्ट्राण्यपि ट्रम्पस्य प्रक्रमे आशङ्कां प्राकट्य अग्रे आगतवन्ति सन्ति। 

  किन्तु गासायामधिनिवेशं कर्तुमुद्दिश्य ट्रम्पस्य निगूढलक्ष्यमेव गासापुनर्निर्माणप्रख्यापने निलीनमिति हमासेन प्रस्तुतम्। शीघ्रमेव अरब उच्चशिखरसम्मेलनमाहूय गासानिवासिनामपाकर्तुम् अमेरिकायाः प्रक्रमः निरोद्धव्य इति च हमासेन निर्दिष्टम्।

 बङ्गलादेशे राष्ट्रपितुः भवनं भञ्जितम्। 

धाक्का> बङ्गलादेशस्य राष्ट्रपतिः षैक् मुजिबुर् रह्मानः इत्यस्य वासगृहं तत्रत्यैः प्रक्षोभकैः भञ्जितम्। राष्ट्रात् पलायितायाः भूतपूर्वप्रधानमन्त्रिण्याः षैक् हसीनायाः राजनैतिकदलनेतॄणां वासगृहाणि च भञ्जितानि। षैक् हसीनायाः गृहम् अग्निसात्कृतम्। हसीनां विरुध्य प्रक्षोभं नीतवत् विद्यार्थिसंघटनमेव अक्रमाणां नेतृत्वमावहदिति सूच्यते।

 निगडबन्धनेन निष्कासनं - भारते ट्रम्पं विरुध्य प्रतिषेधः शक्तः। 

संसद पुरतः विपक्षदलीयसदस्यैः कृतमान्दोलनम्। 

नवदिल्ली> १०४ अनधिकृताधिनिवेशितान् भारतीयान् हस्तपादबन्धनेन अमेरिकायाः सेनाविमाने निष्करुणं  निष्कासितवानिति प्रकरणे डोनाल्ड ट्रम्पं विरुध्य भारते प्रतिषेधः शक्तः अभवत्। मनुष्यत्वयुक्तं प्रतिनिवर्तनं विधातुं प्रधानमन्त्रिणा नरेन्द्रमोदिना कोSपि प्रक्रमः न कृतः इत्यारोप्य विपक्षदलीयाः सदस्याः संसदस्य उभयसभयोरपि कोलाहलमकुर्वन्। ट्रम्पस्य उत्तममित्रमिति अभिमानी नरेन्द्रमोदी अमेरिकायाः मनुष्यत्वरहितं प्रक्रमं प्रतिरोद्धुं किमपि न कृतवानिति संसदः पुरतः आन्दोलनं कृत्वा 'इन्डिया'सख्यसदस्यैः आरोपितम्। 

   किन्तु महिलाः बालकाश्च न बन्धिताः इति भारतस्य विदेशकार्यमन्त्रिणा  एस् जयशङ्करेण निगदितम्।

Thursday, February 6, 2025

 राष्ट्रियक्रीडा 

पादकन्दुके केरलम् अन्तिमस्पर्धां प्राविशत्।

अन्तिमस्पर्धां प्रविष्टः केरलदलः आह्लादे।

हल्द्वानी> राष्ट्रियक्रीडास्पर्धायां पादकन्दुकस्पर्धापरम्परायाः पूर्वान्त्यचक्रे असमराज्यं 'पेनाल्टी षूटौट्' प्रकरणे ३ - २ इति लक्ष्यकन्दुकक्रमेण पराजित्य केरलम् अन्तिमस्पर्धां प्राविशत्। निश्चितसमये युगलदलमपि लक्ष्यरहितसमस्थितौ अवर्तत। राष्ट्रियक्रीडापादकन्दुके अधिकसमयस्पर्धा न विहिता इत्यतः षूटौट् स्पर्धायां ३ - २ इति क्रमेण केरलस्य विजयः। 

  राष्ट्रियक्रीडायां केरलं नवमस्थाने वर्तते। ९ सुवर्णानि, ९ रजतानि, ६ कांस्यानि इति क्रमेण २४ पतकानि प्राप्तानि।

 राष्ट्रियक्रीडा - प्रथमस्थाने कर्णाटकम्। 

सर्वीसस् मध्यप्रदेशश्च द्वितीय तृतीयस्थानयोः। 


हल्द्वानी> उत्तराखण्डे दशदिनानि यावत् अनुवर्तमाने राष्ट्रियक्रीडाप्रतिद्वन्द्वे ५४ अङ्कान् सम्प्राप्य कर्णाटकराज्यं प्रथमस्थाने विराजते। २८ सुवर्णानि, ११ रजतानि, १५ कांस्यानि च पतकरूपेण तैः सम्प्राप्तानि। 

  ४६ पतकान् सम्प्राप्य सर्वीसस् दलं द्वितीयस्थाने अस्ति। सुवर्णानि -२७, रजतानि - १०, कांस्यानि - ९। तृतीये तु मध्यप्रदेशः। सुवर्णानि -१७, रजतानि - ७, कांस्यानि - १० इति क्रमेण ३४ अङ्काः तैः सम्पादिताः।

Wednesday, February 5, 2025

 अनधिकृताधिनिवेशः - २०५ भारतीयाः यू एस् तः निष्कासिताः। 

वाषिङ्टणः>  'रोयिटेर्स्' वार्तासंस्थया वृत्तान्तीकृतं यत् भारतात् अनधिकृतेन अमेरिकाममधिनिविष्टाः २०५ जनाः यू एस् सेनाविमानेन प्रतिनिवर्तिताः।  व्योमसेनायाः सि - 7 इति विमानम् एतानधिनिविष्टान् ऊढ्वा टेक्ससस्थात् सान् अन्टोणियो निलयात् मङ्गलवासरे पञ्चाबस्थं अमृसरं लक्ष्यीकृत्य प्रस्थितम्।

  अनधिकृताधिनिविष्टाः निष्कासितव्याः इति निर्वाचनप्रचारणकाले ट्रम्पेण प्रस्तुतमासीत्। यू एसस्य प्रक्रमः विंशतिसहस्राधिकान् भारतीयान् प्रतिकूल्यते इति चिन्ता वर्तते।

 ट्रम्पः श्लथयति।

आयकरविधिः जडीकरोति। 

वाषिङ्टणः> मेक्सिको, कानडा इत्येतत्  निकटराष्ट्रद्वयं प्रति अमेरिकया आदिष्टः आयकरग्रहणनिर्णयः ट्रम्पेण मासैककालं यावत् जडीकृतम्। आदेशः मङ्गलवासरे प्रवृत्तिपथमागन्तव्यमासीत्। किन्तु सीमारक्षणं उन्मादकवस्तूनां गोप्यतरणमित्यादिविषयेषु ट्रम्पस्य अभिलाषानुसारं प्रक्रमान् स्वीकर्तुं राष्ट्रद्वयमपि सज्जमभवत्। अतः एव आयकरग्रहणे ट्रम्पस्य मनः शिथिलीभतम्। 

 ट्रम्पः मेक्सिकोराष्ट्रपतिः क्लोडिया षेन् बोमश्च सोमवासरे चर्चां कृतवन्तौ। अनधिकृताधिनिवेशं प्रतिरोद्धुं मेक्सिकोसीमायां दशसहस्रं सैनिकान् विन्यस्तुं क्लोडियः सम्मतोSभवत्।

Tuesday, February 4, 2025

 दिल्लीविधानसभानिर्वाचनं श्वः - सघोषप्रचारणं समाप्तम्। 

नवदिल्ली> दिल्लीविधानसभायाः जनविधिः बुधवासरे सम्पत्स्यते। सघोषप्रचारणं सोमवासरे समाप्तम्। विधिफलं शनिवासरे अवगमिष्यते। 

  ए ए पी, कोण्ग्रस्, भा ज पा दलानि तेषां बलं सर्वमुपयुज्य प्रचरणयुद्धं विधत्तम्। निर्वाचनं सुगमं सुरक्षितं च कर्तुं १५० कम्पनि परिमितं अर्धसेनां, ३००० रक्षिपुरुषान् च न्ययुज्यत।

 जेवार् विमाननिलयः एप्रिल् मासे प्रवर्तनमारप्स्यते। 

नवदिल्ली> एष्याभूखण्डे बृहत्तमः विमाननिलयः इति विकासमापद्यमानः जेवार् विमाननिलयः एप्रिल् मासे सामान्यरीत्या प्रवर्तनमारप्स्यते इति व्योमयानमन्त्री राममोहननायिडुः राज्यसभायाम् अवोचत्। 

  दिल्लीतः ७० कि मी दूरे नोयिडाप्रदेशस्य अंशतया एव जेवार् विमाननिलयस्य विकसनप्रवर्तनानि प्रचलन्ति। नोयिडा अतिशीघ्रवीथेः समीपमेवास्य स्थानम्। नायिडुवर्येणोक्तं यत् डिसम्बरमासे परीक्षणविमानमवतारितं, समयबद्धानुसारं सर्वं प्रचलदस्ति।

Monday, February 3, 2025

 व्यापारे कर्कशव्यवहारेण ट्रम्पः। 

चीनं, कानडा, मेक्सिको राज्याणाम् आयातकरः विहितः। 

वाषिङ्टणः> अमेरिकायाः व्यापारनये कर्कशव्यवहारेण  राष्ट्रपतिः डोनाल्ड ट्रम्पः। चीनं, कानडा, मेक्सिको राज्येभ्यः आयातानामुत्पन्नानां करं विधाय भौगोलिकव्यापारयुद्धम् आरब्धवान्। 

  चीनतः उत्पन्नानां १०%, कानडा, मेक्सिको राज्याभ्यामुत्पन्नानां २५% च आयातकरः विहितः।

Sunday, February 2, 2025

 राज्येभ्यः ५० संवत्सराणि यावत् वृद्धिरहितम् ऋणम्। 

नवदिल्ली> आधारसुविधाविकासाय उपयोक्तुं राज्येभ्यः ५० वर्षाणि प्रत्यर्पणकालपरिधियुक्तं वृद्धिरहितम् ऋणं दास्यत इति केन्द्रवित्तमन्त्री निर्मला सीतारामः। एतदर्थं सार्धैकलक्षं कोटि रूप्यकाणि परिकल्पितानि। आधारसुविधापरियोजनाः निर्वोढुं विहिताः मन्त्रालयाः समाजीय-निजीयभागभागित्वेन वर्षत्रयात्मिकाः परियोजनाः आसूत्रणीयाः इति वित्तमन्त्रिणा उक्तम्। राज्यानि पूर्वोक्तपरियोजनाधनसञ्चयात् ऋणस्वीकाराय अर्हतां लभन्ते।

 औषधानां ३६ अधिकरणानां मूल्यं न्यूनं करिष्यति। 

नवदिल्ली> अर्बुदः, अपूर्वरोगाः इत्यादीनि ३६ प्रणरक्षौषधानि 'कस्टम्स करात्' निष्कास्य केन्द्रायव्ययपत्रम्। अतः तेषां  मूल्यं न्यूनं करिष्यति। इतरेषां  षडौषधानां करः ५% इति न्यूनीकृतम्।

 आयकरे आश्वासं प्रदाय केन्द्रसर्वकारस्य वित्तपरिकल्पनापत्रम्।

नवदिल्ली> मध्यवर्तिजनेभ्यः महान्तमाश्वासं  प्रदाय केन्द्रसर्वकारस्य आयव्ययपत्रे आयकरस्य न्यूनीकरणं विहितम्। तृतीयस्य नरेन्द्रमोदीसर्वकारस्य प्रथमे सम्पूर्णवित्तपरिकल्पनापत्रे   वित्तमन्त्री निर्मला सीतारामः येषां प्रतिवर्षं १२ लक्षरूप्यकाणि पर्यन्तं आयः अस्ति ते आयकरसमर्पणात् मोचयिष्यन्ति। एतत्तु मासवेतनवतां मध्यवर्तिजनानाम् अतीव आश्वासाय भविष्यति। 

  निर्मलासीतारामेण अवतारितमिदमायव्यपत्रकं सामान्यजनानामायव्ययपत्रकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।

Saturday, February 1, 2025

 भारतं प्रवर्धत इति आर्थिकसमीक्षणम्।

नवदिल्ली> भौगोलिकस्तरे राजनैतिक-आर्थिकानिश्चितत्वानि वर्तन्ते तथापि भारतस्य आर्थिकव्यवस्था प्रवर्धमानां रीतिमवलम्बते इति सूच्यते। गतदिने राष्ट्रस्य आयव्ययपत्रावतरणस्य अंशतया संसदि वित्तमन्त्रिण्या निर्मला सीतारामेण समर्पिते आर्थिकान्वीक्षणपत्रे अस्त्ययं मूल्यनिर्णयः। 

  २०२४ - '२५ आर्थिकसंवत्सरे राष्ट्रस्य आभ्यन्तरार्थिकाभिवृद्धिः [जी डी पी] ६. ३ - ६. ८ प्रतिशतमिति प्रतीक्षते। जी डी पी वर्धनाय बहवः उपायाः अपि आर्थिकान्वीक्षणपत्रे निर्दिश्यन्ते।