महाराष्ट्रे गणतन्त्रदिवसे विद्यालयविरामः निरुद्धः।
आदिनस्पर्धाः।
मुम्बई> महाराष्ट्रे विद्यालयेषु अस्मात् वर्षादारभ्य राष्ट्रगणतन्त्रदिवसे [जनवरी २६] विरामः न भविष्यति। तद्दिनमाहत्य छात्राणां कृते राष्ट्रियप्राधान्ययुक्ताः स्पर्धाः आयोजनीयाः इत्यादिश्य शिक्षाविभागेन विज्ञप्तिः बहिर्नीता।
छात्राणां राष्ट्रियावबोधवर्धनाय चरित्र-पैतृक-संस्कृतिविषयेषु स्पर्धाः आयोजनीयाः। परन्तु सर्वकारस्य निर्णये विमर्शाः जाताः।